Monday, April 17, 2017

Sandhyavandanam

Courtesy:Dr.Korada subramaniam
नमो विद्वद्भ्यः

What is सन्ध्या ? -- सन्धौ भवा सन्ध्या - कालः ।  उपचारात्  तत्काले उपास्यमानदेवता अपि सन्ध्याशब्देनोच्यते । तदीयः आचमनादिक्रियाकलापः सन्ध्यावन्दनम् इति कर्मपरत्वम् शब्दस्य ।

तैत्तिरीयारण्यकम् ( 2) - स्वाध्यायब्राह्मणम् --
उद्यन्तमस्तंयन्तमादित्यमभिध्यायन् कुर्वन् ब्राह्मणो विद्वान् सकलं भद्रमश्नुतेSसावादित्यो ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति य एवं वेद ।

I shall mainly discuss the various sub-activities of the rite as per श्रुति , स्मृति and पूर्वमीमांसा ।

1.  स्मृत्याचमनम्  - संकल्पः  -----

अङ्गप्र्धानकर्मविचारणा --

In all कर्मs there will be अङ्गप्रधानभेद -- it is decided that 1. अर्घ्यप्र्क्षेपः / अर्घ्यप्रदानम्  , 2.गायत्रीजपः , 3. आदित्योपस्थानम्  -- are प्र्धानानि and मार्जनादिकं अङ्गम् ।

Even if someone performs the प्रधानानि , he will get the सन्ध्यावन्दनफलम्  ---

this is discussed in यथाशक्त्यधिकरणम् of अधिकाराध्याय (षष्ठाध्याय) of पूर्वमीमांसा --

since it is a नित्यकर्म and should be performed throughout the life , even if the प्र्धानानि are performed , i e not the complete साङ्गप्रधानम् सन्ध्यावन्दनम् , one will not face अकरणे प्रत्यवायः , but gets संपूर्णफलम् ( opposite is the case with regard to काम्यकर्म ) .

Among the प्रधानs also अर्घ्यप्रक्षेप is given maximum importance -- even during जाताशौच and मृताशौच one should do अर्घ्यप्रदानम् --

अशौचादौ सन्ध्यावन्दनम् अर्घ्यान्तम् ।

Why it is so important ? स्वाध्यायब्राह्मणम् narrates --

रक्षाग्ंसि हवा पुरो'नुवाके तपो'ग्रमतिष्ठन्त तान् प्र्जापतिर्वरेणोपामन्त्रयत तानि वरमवृणीत आदित्यो नो योद्धा ..।

तानि हवा एतानि रक्षाग्ंसि गायत्र्याभिमन्त्रितेनांभसा शाम्यन्ति । तदु हवा एते ब्रह्मवादिनः पूर्वाभिमुखाः सन्ध्यायां गायत्र्याभिमन्त्रिता आप ऊर्ध्वं विक्षिपन्ति । ता एता  आपो वज्रीभुत्वा तानि रक्षाग्ंसि मन्देहारुणे द्वीपे प्रक्षिपन्ति   ।

Before अर्घ्यप्रक्षेप , one has to do मार्जनम् by - अपो हि ष्ठा मयोभुवः .....

ननु एतन्मन्त्रपूर्वकमार्जनकरणेन बाह्यशुद्धिः संभवति कथम् आन्तरशुद्धिः  इति चेत् अग्निश्चेत्यादि मन्त्रत्रयेण सायं प्रातर्मध्यंदिनेषु 
जलपानमावश्यकमित्युक्तम् । कुतः ? मानसपापानिवृत्तौ  अधिकारप्रच्युतिप्रसङ्गात् ।

अग्निश्च मा मन्युश्च ......., सूर्यस्य मा मन्युश्च ..... 

there are further मार्जनमन्त्रs --

दधिक्राव्ण्णो अकारिषम्  -- दधीनि हवीग्ंषि क्रामति गच्छतीति दधिक्रावा , तस्य दधिक्राव्ण्णः जिष्णोः ......

- such waters  the right hand , have to be smelt and put on the left side - one should not look at these waters.

Then  यत्प्रदक्षिणं --- ' असावादित्यो ब्रह्मेति ' -- तर्पणम् ।

If someone is suffering from fever he can use warm/hot water .

Then गायत्रीहृदयमन्त्रः - गायत्रीजपः -- this is the second प्रधानकर्म ।

Then उपस्थानमन्त्रः - the last प्रधानकर्म ।

1. मार्जनद्वयम् 2.अर्घ्यप्रक्षेपः 3. असावादित्यो ब्रह्म 4. गायत्रीजपः 5. उपस्थानम्

वेदार्थज्ञानदीपिक (तेलुगु) of साङ्गवेदर्थसाम्राट् रेमेल्ल सूर्यप्रकाशशास्त्री (late) is also used by me as a reference.

the following information may generally be useful ---

1. आचमनम् -- one should not make sound ( even scholars do) while doing आचमनम् - शब्दम् अकुर्वन् आचामेत्

2. धर्मः - All the people should perform सन्ध्यावन्दनम् - but ladies and others (in कलियुग) without मन्त्र ।
धर्म is decided by वेद । Later whatever is said by ऋषिs , who are - 
साक्षात्कृतधर्माणः , विदितवेदितव्याः , परावरज्ञाः , अधिगतयाथातथ्याः ... (पस्पशाह्निकम्, महाभाष्यम्) - decide  what is धर्म , what is अधर्म - no further discussion .

आपस्तम्बः --

न धर्माधर्मौ चरत आवां स्व इति । न देवा न गन्धर्वा न पितर इत्याचक्षते अयं धर्म अयमधर्म इति । यं तु आर्याः क्रियमाणं प्रशंसन्ति स धर्मः यं विगर्हन्ति सः अधर्मः ।

धर्म and अधर्म do not move across declaring ' I am so and so ' . Neither Devas nor Gandharvas nor forefathers say this is धर्म and this is अधर्म । But the one which is praised by Aryas is धर्म and which is blamed is अधर्म ।
इदं पुण्यमिदं पापम् इत्येतस्मिन् पदद्वये ।
आचण्डालं मनुष्याणाम् अल्पं शास्त्रप्रयोजनम् ॥ वेदव्यासः

 ( quoted in वाक्यपदीयम् ऽ श्लोकवार्तिकम्)

3. षट् घटिकाः ( 144 minutes / मुहूर्तत्रयम्) is the time after उषःकाल / सायंकाल is मुख्यपक्ष - after that one has to offer a प्रायश्चित्तार्घ्यम् -- गायत्री + सप्तव्याहृतीः ( ओम् भूः ......ओग्ं सत्यं ) and then do the सन्ध्यावन्दनम् - this is गौणपक्ष ।

मुख्यकाले यदावश्यं कर्म  कर्तुं न शक्यते ।
गौणकाले'पि कर्तव्यं गौणो'प्यत्रेदृशो मतः ॥

4. माध्याह्निकसन्ध्या -- this is not श्रुतिविहित but स्मृतिविहित ( श्रुति says - उद्यन्तमस्तन्यन्तम् आदित्यमभिध्यायन् ) ।
Only one अर्घ्यम् with गायत्री and another with हग्ंसश्शुचिषत् वसुः .... will do .

5. सायंसन्ध्या - अर्घ्यम् can be offered while sitting .

6. शिवाय विष्णुरूपाय ... is not part and parcel of सन्ध्यावन्दनम् ।

7. आपद्धर्मः -- if one cannot do ...?

आख्यातशब्दानाम् अर्थं ब्रुवतां शक्तिः सहकारिणी -- शाबरभाष्यम् 1-4-29

when you interpret  a verbal word then add शक्ति  -- 

ज्योतिष्टोमेन स्वर्गकामो यजेत  -- if and only if (iff) one has got the मानसिकशक्ति , शारीरकशक्ति and आर्थिकशक्ति - then only one should initiate याग ।

While enumerating आत्मगुणाः , गौतमस्मृति  mentions - ' अनायासः ' - if you will not get tired .

So -- सन्ध्यां मनसा ध्यायेत् ( ऐतरेयब्रा 3-8-1) , अहरहः सन्ध्यामुपासीत (गृह्यसूत्रम्) --

here ध्यायेत् / उपासीत means if one is healthy and able to do then only सन्ध्यावन्दनम् ।
One may do the three - अर्घ्यप्रक्षेपः , गायत्रीजपः , उपस्थानम् ।

Or one may do at least अर्घ्यप्रक्षेप ।

अशौचादौ सन्ध्यावन्दनम् अर्घ्यान्तम् - during अशौच it is अर्घ्यान्तम् ।

सूतके मृतके चैव सन्ध्याकर्म न संत्यजेत् ।
मनसोच्चारयेन्मन्त्रान् प्राणायमम्रुते द्विजः ॥ -- one may do मानसिकम् ।

तप्ताभिश्च कारणात्  -- आपस्तम्बः ---

कारणात् = ज्वरकारणात्  -- if one is suffering from fever then he can do with hot water .

Suffering from chronic disease then --

पितरं भ्रातरम् अन्यं वा समाहूय कारयितव्यम् , नित्यकर्मत्वात् 

since it is a नित्यकर्म , one may get it done by father , brother or some other person .

8. जातकर्म etc. -- For girls  right from जातकर्म down to चौलम्  it is अमन्त्रकम् --

अयुजाक्षरं कुमार्याः - आप गृह्य 15-11

सुदर्शनाचार्यतत्पर्यदर्शनम् --

कुमार्या अपि जातकर्मादयः चौलान्ताः देहसंस्कारार्थाः  क्रियाः तूष्णीं कर्तव्या एव ।

अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ मनुस्म्रुतिः , 2-66

So no उपनयनम् for a girl .

See also सन्ध्याभाष्यम् , पराशरमाधवीयम् etc.