संस्कृतभारती
२५, दीनदयाल उपध्याय मार्ग:, नवदेहली ११०००२, दूरवाणी – ०११-२३२३६७११/२२,
आत्मीयबन्धो,
सादरं वन्दनानि।
संस्कृतभारत्याः अखिलभारतीयम् अधिवेशनम् २०१७ जनवरी ६,७,८ दिनांकेषु कर्णाटकस्य उडुपिनगरे भविष्यति।
अधिवेशनसम्भन्धिविवरणानि एवं वर्तन्ते।
अधिवेशनस्य दिनांकः – ६,७ ,८ जनवरी २०१७ (शुक्र,शनि,भानु)
६ दिनांके प्रातः ७ वादनात् पूर्वम् प्राप्तव्यम्। पूर्वदिने रात्रो अपि प्राप्तुं शक्यते ।
८ दिनांके सायं ७ वादनानन्तरं उडुपितः प्रतिगमनस्य आरक्षणं कर्तुं शक्यते।
अधिवेशनस्य स्थानम् - श्रीकॄष्णमठः, उडुपि, कर्णाटकम् - ५७६१०१
(उडुपि रेल् स्थानकतः अधिवेशनस्थानं – ४ कि मी )
अपेक्षिताः
१) जनपद (जिल्ला) गणीयाः ,तदुपरितनकार्यकर्तारः च।
२) तहसील(तालूक) संयोजकाः, जनपद केन्द्रस्य नगरसंयोजकाः च।
३) विस्तारकाः,पूर्णकालिकाश्च।
४) संस्कॄतभारत्याः न्यासिनः(Trustees)।
५) शैक्षिकवर्षेऽस्मिन् चालितशिबिराः।
आरक्षणव्यवस्था एवं भवितुम् अर्हति।
१) उत्तरभारततः ये आगच्छन्ति ते सर्वे उडुपि पर्यन्तं, आरक्षणं कुर्युः। उडुपि मध्ये अवतरणीयम्।
२) मुम्बैतः प्रतिदिनं यानत्रयम् अस्ति। (16345 Netravati Exp, 12619 Matsyagandha Exp, 12133 Mangalore Exp)
३) असम-बंगाल-उत्कलतः आगन्तारः चेन्नै आगत्य ततः मेङ्गलुरुं प्राप्नुयुः। ततः उडुपिं रेलयानेन, लोकयानेन वा प्राप्तुं शक्यते। मेङ्गलुरुतः उडुपि ७० कि.मी.
४) गुजरात-राजस्थान-मालवातः आगन्तारः मुम्बैम् आगत्य रेल यानेन उडुपिं प्राप्नुयुः।
५) आन्र्ध-तेलंगाण-तमिलुनाडुतः आगन्तारः यथा अनुकूलं चेन्नैमार्गेण वा बेङ्गलुरुमार्गेण वा उडुपीं प्राप्तुम् अर्हन्ति।
६) विमानेन आगन्तारः मंगलूरु विमानस्थानके अवतीर्य ततः उडुपीं प्राप्नुयुः। (विमानस्थानकतः उडुपिनगरं ५२ कि.मी.)
संपर्कदूरभाषा – लक्ष्मीनारायणः - 08050250829 , श्रीधराचार्यः - 09448623954
इति भवदीयः
प.नन्दकुमारः
महामन्त्री, संस्कृतभारती
No comments:
Post a Comment