Tuesday, August 9, 2016

Shri Subrahmanya Trisathi

Courtesy:Sri.CS.Ramachandran

Lord Subrahmanya.

॥ श्रीसुब्रह्मण्यत्रिशतीनामावली ॥    ॐ श्रीं सौं शरवणभवाय नमः ।  ॐ शरच्चन्द्रायुतप्रभाय नमः ।  ॐ शशाङ्कशेखरसुताय नमः ।  ॐ शचीमाङ्गल्यरक्षकाय नमः ।  ॐ शतायुष्यप्रदात्रे नमः ।  ॐ शतकोटिरविप्रभाय नमः ।  ॐ शचीवल्लभसुप्रीताय नमः ।  ॐ शचीनायकपूजिताय नमः ।  ॐ शचीनाथचतुर्वक्त्रदेवदैत्याभिवन्दिताय नमः ।  ॐ शचीशार्तिहराय नमः । १० ।  ॐ शम्भवे नमः ।  ॐ शम्भूपदेशकाय नमः ।  ॐ शङ्कराय नमः ।  ॐ शङ्करप्रीताय नमः ।  ॐ शंयाककुसुमप्रियाय नमः ।  ॐ शङ्कुकर्णमहाकर्णप्रमुखाद्यभिवन्दिताय नमः ।  ॐ शचीनाथसुताप्राणनायकाय नमः ।  ॐ शक्तिपाणिमते नमः ।  ॐ शङ्खपाणिप्रियाय नमः ।  ॐ शङ्खोपमषड्गलसुप्रभाय नमः । २० ।  ॐ शङ्खघोषप्रियाय नमः ।  ॐ शङ्खचक्रशूलादिकायुधाय नमः ।  ॐ शङ्खधाराभिषेकादिप्रियाय नमः ।  ॐ शङ्करवल्लभाय नमः ।  ॐ शब्दब्रह्ममयाय नमः ।  ॐ शब्दमूलान्तरात्मकाय नमः ।  ॐ शब्दप्रियाय नमः ।  ॐ शब्दरूपाय नमः ।  ॐ शब्दानन्दाय नमः ।  ॐ शचीस्तुताय नमः । ३० ।  ॐ शतकोटिप्रविस्तारयोजनायतमन्दिराय नमः ।  ॐ शतकोटिरविप्रख्यरत्नसिंहासनान्विताय नमः ।  ॐ शतकोटिमहर्षीन्द्रसेवितोभयपार्श्वभुवे नमः ।  ॐ शतकोटिसुरस्त्रीणां नृत्तसङ्गीतकौतुकाय नमः ।  ॐ शतकोटीन्द्रदिक्पालहस्तचामरसेविताय नमः ।  ॐ शतकोट्यखिलाण्डादिमहाब्रह्माण्डनायकाय नमः ।  ॐ शङ्खपाणिविधिभ्यां च पार्श्वयोरुपसेविताय नमः ।  ॐ शङ्खपद्मनिधीनां च कोटिभिः परिसेविताय नमः ।  ॐ शशाङ्कादित्यकोटीभिःसव्यदक्षिणसेविताय नमः ।  ॐ शङ्खपालाद्यष्टनागकोटिभिः परिसेविताय नमः । ४० ।  ॐ शशाङ्कारपतङ्गादिग्रहनक्षत्रसेविताय नमः ।  ॐ शशिभास्करभौमादिग्रहदोषार्तिभञ्जनाय नमः ।  ॐ शतपत्रद्वयकराय नमः ।  ॐ शतपत्रार्चनप्रियाय नमः ।  ॐ शतपत्रसमासीनाय नमः ।  ॐ शतपत्रासनस्तुताय नमः ।  ॐ शरीरब्रह्ममूलादिषडाधारनिवासकाय नमः ।  ॐ शतपत्रसमुत्पन्नब्रह्मगर्वविभेदनाय नमः ।  ॐ शशाङ्कार्धजटाजूटाय नमः ।  ॐ शरणागतवत्सलाय नमः । ५० ।  ॐ रकाररूपाय नमः ।  ॐ रमणाय नमः ।  ॐ राजीवाक्षाय नमः ।  ॐ रहोगताय नमः ।  ॐ रतीशकोटिसौन्दर्याय नमः ।  ॐ रविकोट्युदयप्रभाय नमः ।  ॐ रागस्वरूपाय नमः ।  ॐ रागघ्नाय नमः ।  ॐ रक्ताब्जप्रियाय नमः ।  ॐ राजराजेश्वरीपुत्राय नमः । ६० ।  ॐ राजेन्द्रविभवप्रदाय नमः ।  ॐ रत्नप्रभाकिरीटाग्राय नमः ।  ॐ रविचन्द्राग्निलोचनाय नमः ।  ॐ रत्नाङ्गदमहाबाहवे नमः ।  ॐ रत्नताटङ्कभूषणाय नमः ।  ॐ रत्नकेयूरभूषाढ्याय नमः ।  ॐ रत्नहारविराजिताय नमः ।  ॐ रत्नकिङ्किणिकाञ्च्यादिबद्धसत्कटिशोभिताय नमः ।  ॐ रवसंयुक्तरत्नाभनूपुराङ्घ्रिसरोरुहाय नमः ।  ॐ रत्नकङ्कणचूल्यादिसर्वाभरणभूषिताय नमः । ७० ।  ॐ रत्नसिंहासनासीनाय नमः ।  ॐ रत्नशोभितमन्दिराय नमः ।  ॐ राकेन्दुमुखषट्काय नमः ।  ॐ रमावाण्यादिपूजिताय नमः ।  ॐ राक्षसामरगन्धर्वकोटिकोट्यभिवन्दिताय नमः ।  ॐ रणरङ्गे महादैत्यसङ्ग्रामजयकौतुकाय नमः ।  ॐ राक्षसानीकसंहारकोपाविष्टायुधान्विताय नमः ।  ॐ राक्षसाङ्गसमुत्पन्नरक्तपानप्रियायुधाय नमः ।  ॐ रवयुक्तधनुर्हस्ताय नमः ।  ॐ रत्नकुक्कुटधारणाय नमः । ८० ।  ॐ रणरङ्गजयाय नमः ।  ॐ रामास्तोत्रश्रवणकौतुकाय नमः ।  ॐ रम्भाघृताचीविश्वाचीमेनकाद्यभिवन्दिताय नमः ।  ॐ रक्तपीताम्बरधराय नमः ।  ॐ रक्तगन्धानुलेपनाय नमः ।  ॐ रक्तद्वादशपद्माक्षाय नमः ।  ॐ रक्तमाल्यविभूषिताय नमः ।  ॐ रविप्रियाय नमः ।  ॐ रावणेशस्तोत्रसाममनोधराय नमः ।  ॐ राज्यप्रदाय नमः । ९० ।  ॐ रन्ध्रगुह्याय नमः ।  ॐ रतिवल्लभसुप्रियाय नमः ।  ॐ रणानुबन्धनिर्मुक्ताय नमः ।  ॐ राक्षसानीकनाशकाय नमः ।  ॐ राजीवसम्भवद्वेषिणे नमः ।  ॐ राजीवासनपूजिताय नमः ।  ॐ रमणीयमहाचित्रमयूरारूढसुन्दराय नमः ।  ॐ रमानाथस्तुताय नमः ।  ॐ रामाय नमः ।  ॐ रकाराकर्षणक्रियाय नमः । १०० ।  ॐ वकाररूपाय नमः ।  ॐ वरदाय नमः ।  ॐ वज्रशक्त्यभयान्विताय नमः ।  ॐ वामदेवादिसम्पूज्याय नमः ।  ॐ वज्रपाणिमनोहराय नमः ।  ॐ वाणीस्तुताय नमः ।  ॐ वासवेशाय नमः ।  ॐ वल्लीकल्याणसुन्दराय नमः ।  ॐ वल्लीवदनपद्मार्काय नमः ।  ॐ वल्लीनेत्रोत्पलोडुपाय नमः । ११० ।  ॐ वल्लीद्विनयनानन्दाय नमः ।  ॐ वल्लीचित्ततटामृताय नमः ।  ॐ वल्लीकल्पलतावृक्षाय नमः ।  ॐ वल्लीप्रियमनोहराय नमः ।  ॐ वल्लीकुमुदहास्येन्दवे नमः ।  ॐ वल्लीभाषितसुप्रियाय नमः ।  ॐ वल्लीमनोहृत्सौन्दर्याय नमः ।  ॐ वल्लीविद्युल्लताघनाय नमः ।  ॐ वल्लीमङ्गलवेषाढ्याय नमः ।  ॐ वल्लीमुखवशङ्कराय नमः । १२० ।  ॐ वल्लीकुचगिरिद्वन्द्वकुङ्कुमाङ्कितवक्षकाय नमः ।  ॐ वल्लीशाय नमः ।  ॐ वल्लभाय नमः ।  ॐ वायुसारथये नमः ।  ॐ वरुणस्तुताय नमः ।  ॐ वक्रतुण्डानुजाय नमः ।  ॐ वत्साय नमः ।  ॐ वत्सलाय नमः ।  ॐ वत्सरक्षकाय नमः ।  ॐ वत्सप्रियाय नमः । १३० ।  ॐ वत्सनाथाय नमः ।  ॐ वत्सवीरगणावृताय नमः ।  ॐ वारणाननदैत्यघ्नाय नमः ।  ॐ वातापिघ्नोपदेशकाय नमः ।  ॐ वर्णगात्रमयूरस्थाय नमः ।  ॐ वर्णरूपाय नमः ।  ॐ वरप्रभवे नमः ।  ॐ वर्णस्थाय नमः ।  ॐ वारणारूढाय नमः ।  ॐ वज्रशक्त्यायुधप्रियाय नमः । १४० ।  ॐ वामाङ्गाय नमः ।  ॐ वामनयनाय नमः ।  ॐ वचद्भुवे नमः ।  ॐ वामनप्रियाय नमः ।  ॐ वरवेषधराय नमः ।  ॐ वामाय नमः ।  ॐ वाचस्पतिसमर्चिताय नमः ।  ॐ वसिष्ठादिमुनिश्रेष्ठवन्दिताय नमः ।  ॐ वन्दनप्रियाय नमः ।  ॐ वकारनृपदेवस्त्रीचोरभूतारिमोहनाय नमः । १५० ।  ॐ णकाररूपाय नमः ।  ॐ नादान्ताय नमः ।  ॐ नारदादिमुनिस्तुताय नमः ।  ॐ णकारपीठमध्यस्थाय नमः ।  ॐ नगभेदिने नमः ।
ॐ नगेश्वराय नमः ।  ॐ णकारनादसन्तुष्टाय नमः ।  ॐ नागाशनरथस्थिताय नमः ।  ॐ णकारजपसुप्रीताय नमः ।  ॐ नानावेषाय नमः । १६० ।  ॐ नगप्रियाय नमः ।  ॐ णकारबिन्दुनिलयाय नमः ।  ॐ नवग्रहसुरूपकाय नमः ।  ॐ णकारपठनानन्दाय नमः ।  ॐ नन्दिकेश्वरवन्दिताय नमः ।  ॐ णकारघण्टानिनदाय नमः ।  ॐ नारायणमनोहराय नमः ।  ॐ णकारनादश्रवणाय नमः ।  ॐ नलिनोद्भवशिक्षकाय नमः ।  ॐ णकारपङ्कजादित्याय नमः । १७० ।  ॐ नववीराधिनायकाय नमः ।  ॐ णकारपुष्पभ्रमराय नमः ।  ॐ नवरत्नविभूषणाय नमः ।  ॐ णकारानर्घशयनाय नमः ।  ॐ नवशक्तिसमावृताय नमः ।  ॐ णकारवृक्षकुसुमाय नमः ।  ॐ नाट्यसङ्गीतसुप्रियाय नमः ।  ॐ णकारबिन्दुनादज्ञाय नमः ।  ॐ नयज्ञाय नमः ।  ॐ नयनोद्भवाय नमः । १८० ।  ॐ णकारपर्वतेन्द्राग्रसमुत्पन्नसुधारणये नमः ।  ॐ णकारपेटकमणये नमः ।  ॐ नागपर्वतमन्दिराय नमः ।  ॐ णकारकरुणानन्दाय नमः ।  ॐ नादात्मने नमः ।  ॐ नागभूषणाय नमः ।  ॐ णकारकिङ्किणीभूषाय नमः ।  ॐ नयनादृश्यदर्शनाय नमः ।  ॐ णकारवृषभावासाय नमः ।  ॐ नामपारायणप्रियाय नमः । १९० ।  ॐ णकारकमलारूढाय नमः ।  ॐ नामानतसमन्विताय नमः ।  ॐ णकारतुरगारूढाय नमः ।  ॐ नवरत्नादिदायकाय नमः ।  ॐ णकारमकुटज्वालामणये नमः ।  ॐ नवनिधिप्रदाय नमः ।  ॐ णकारमूलमन्त्रार्थाय नमः ।  ॐ नवसिद्धादिपूजिताय नमः ।  ॐ णकारमूलनादान्ताय नमः ।  ॐ णकारस्तम्भनक्रियाय नमः । २०० ।  ॐ भकाररूपाय नमः ।  ॐ भक्तार्थाय नमः ।  ॐ भवाय नमः   ॐ भर्गाय नमः ।  ॐ भयापहाय नमः ।  ॐ भक्तप्रियाय नमः ।  ॐ भक्तवन्द्याय नमः ।  ॐ भगवते नमः ।  ॐ भक्तवत्सलाय नमः ।  ॐ भक्तार्तिभञ्जनाय नमः । २१० ।  ॐ भद्राय नमः ।  ॐ भक्तसौभाग्यदायकाय नमः ।  ॐ भक्तमङ्गलदात्रे नमः ।  ॐ भक्तकल्याणदर्शनाय नमः ।  ॐ भक्तदर्शनसन्तुष्टाय नमः ।  ॐ भक्तसङ्घसुपूजिताय नमः ।  ॐ भक्तस्तोत्रप्रियानन्दाय नमः ।  ॐ भक्ताभीष्टप्रदायकाय नमः ।  ॐ भक्तसम्पूर्णफलदाय नमः ।  ॐ भक्तसांराज्यभोगदाय नमः । २२० ।  ॐ भक्तसालोक्यसामीप्यरूपमोक्षवरप्रदाय नमः ।  ॐ भवौषधये नमः ।  ॐ भवघ्नाय नमः ।  ॐ भवाअरण्यदवानलाय नमः ।  ॐ भवान्धकारमार्ताण्डाय नमः ।  ॐ भववैद्याय नमः ।  ॐ भवायुधाय नमः ।  ॐ भवशैलमहावज्राय नमः ।  ॐ भवसागरनाविकाय नमः ।  ॐ भवमृत्युभयध्वंसिने नमः । २३० ।  ॐ भावनातीतविग्रहाय नमः ।  ॐ भयभूतपिशाचघ्नाय नमः ।  ॐ भास्वराय नमः ।  ॐ भारतीप्रियाय नमः ।  ॐ भाषितध्वनिमूलान्ताय नमः ।  ॐ भावाभावविवर्जिताय नमः ।  ॐ भानुकोपपितृध्वंसिने नमः ।  ॐ भारतीशोपदेशकाय नमः ।  ॐ भार्गवीनायकश्रीमद्भागिनेयाय नमः ।  ॐ भवोद्भवाय नमः । २४० ।  ॐ भारक्रौञ्चासुरद्वेषाय नमः ।  ॐ भार्गवीनाथवल्लभाय नमः ।  ॐ भटवीरनमस्कृत्याय नमः ।  ॐ भटवीरसमावृताय नमः ।  ॐ भटतारागणोड्वीशाय नमः ।  ॐ भटवीरगणस्तुताय नमः ।  ॐ भागीरथेयाय नमः ।  ॐ भाषार्थाय नमः ।  ॐ भावनाशबरीप्रियाय नमः ।  ॐ भकारे कलिचोरारिभूताद्युच्चाटनोद्यताय नमः । २५० ।  ॐ वकारसुकलासंस्थाय नमः ।  ॐ वरिष्ठाय नमः ।  ॐ वसुदायकाय नमः ।  ॐ वकारकुमुदेन्दवे नमः ।  ॐ वकाराब्धिसुधामयाय नमः ।  ॐ वकारामृतमाधुर्याय नमः ।  ॐ वकारामृतदायकाय नमः ।  ॐ वज्राभीतिदक्षहस्ताय नमः ।  ॐ वामे शक्तिवरान्विताय नमः ।  ॐ वकारोदधिपूर्णेन्दवे नमः । २६० ।  ॐ वकारोदधिमौक्तिकाय नमः ।  ॐ वकारमेघसलिलाय नमः ।  ॐ वासवात्मजरक्षकाय नमः ।  ॐ वकारफलसारज्ञाय नमः ।  ॐ वकारकलशामृताय नमः ।  ॐ वकारपङ्कजरसाय नमः ।  ॐ वसवे नमः ।  ॐ वंशविवर्धनाय नमः ।  ॐ वकारदिव्यकमलभ्रमराय नमः ।  ॐ वायुवन्दिताय नमः । २७० ।  ॐ वकारशशिसङ्काशाय नमः ।  ॐ वज्रपाणिसुताप्रियाय नमः ।  ॐ वकारपुष्पसद्गन्धाय नमः ।  ॐ वकारतटपङ्कजाय नमः ।  ॐ वकारभ्रमरध्वानाय नमः ।  ॐ वयस्तेजोबलप्रदाय नमः ।  ॐ वकारवनितानाथाय नमः ।  ॐ वश्याद्यष्टक्रियाप्रदाय नमः ।  ॐ वकारफलसत्काराय नमः ।  ॐ वकाराज्यहुताशनाय नमः । २८० ।  ॐ वर्चस्विने नमः ।  ॐ वाङ्मनोऽतीताय नमः ।  ॐ वाताप्यरिकृतप्रियाय नमः ।  ॐ वकारवटमूलस्थाय नमः ।  ॐ वकारजलधेस्तटाय नमः ।  ॐ वकारगङ्गावेगाब्धये नमः ।  ॐ वज्रमाणिक्यभूषणाय नमः ।  ॐ वातरोगहराय नमः ।  ॐ वाणीगीतश्रवणकौतुकाय नमः ।  ॐ वकारमकरारूढाय नमः । २९० ।  ॐ वकारजलधेः पतये नमः ।  ॐ वकारामलमन्त्रार्थाय नमः ।  ॐ वकारगृहमङ्गलाय नमः ।  ॐ वकारस्वर्गमाहेन्द्राय नमः ।  ॐ वकारारण्यवारणाय नमः ।  ॐ वकारपञ्जरशुकाय नमः ।  ॐ वलारितनयास्तुताय नमः ।  ॐ वकारमन्त्रमलयसानुमन्मन्दमारुताय नमः ।  ॐ वाद्यन्तभान्तषट्क्रम्यजपान्ते शत्रुभञ्जनाय नमः ।  ॐ वज्रहस्तसुतावल्लीवामदक्षिणसेविताय नमः । ३०० ।  ॐ वकुलोत्पलकादम्बपुष्पदामस्वलङ्कृताय नमः ।  ॐ वज्रशक्त्यादिसम्पन्नद्विषट्पाणिसरोरुहाय नमः ।  ॐ वासनागन्धलिप्ताङ्गाय नमः ।  ॐ वषट्काराय नमः ।  ॐ वशीकराय नमः ।  ॐ वासनायुक्तताम्बूलपूरिताननसुन्दराय नमः ।  ॐ वल्लभानाथसुप्रीताय नमः ।  ॐ वरपूर्णामृतोदधये नमः । ३०८ ।  


No comments:

Post a Comment