Monday, January 18, 2016

किञ्चिन्नर्म

Courtesy: Sri.Perikamana Narayanan

हिन्दीभाषया सामूहिकवृन्देषु प्रचलत् किञ्चन नर्मावलम्ब्य 
स्वतन्त्रकल्पनामिश्रणकल्पितं किञ्चिन्मन्मनउदितं भिषगातुरसंवादरूपं नर्म 
सरससदसि समर्पयामि ।
 
"वैद्यराज, नमस्तुभ्यम् ।"
"स्वस्थो वा भवान् ?"
"नास्मि स्वःस्थोधुना, स्थितोस्म्येव भुवि ।"
"अस्ति वा काचन शान्तिः ?"
"न काचन शन्तिरिति दृष्टा मयात्र भोः ।"
"अस्तु । किमुपभुक्तमासीदौषधम् ?"
"न मया भुक्तसमीपे स्थापितमौषधम् ।"
"मूर्ख, औषधं पीतं वेति पृच्छामि ।"
"न भोः । नीलवर्णमासीतत्तत् ।"
""शाल, त्वयौषधमन्तर्गृहीतं वा ?"
"गृहीतमौषधं गृहान्तः ।"
"दास्याः पुत्र, औषधकूपीपिधानमपनीय मुखान्तर्निहितं वा भेषजं त्वया ?"
"भवदाज्ञानुसारिणा मया निहितमिदं शीतीकरण्यां सपिधानम् ।"
"गोलक, गालिं ते भूयसीं दास्यामि ।"
"गोलकगालेन खेलानि वा?"
"मत्तः प्रहारमिच्छसि ?"
"मत्तो नास्म्यधुना भोः ।"
"अपसराधुना । आगच्छानन्तरम् ।"
"कस्यानन्तरम्?"
"मरणानन्तरम् ।"
"मम वा भवतो वा ?"
 
मूर्च्छितो वैद्यराजः ।।।।

No comments:

Post a Comment