http://www.sringeri.net/2013/05/12/stotra/guru/sri-adi-shankaracharya-ashtottara-shatanamavali.htm
जगद्गुरु आद्यश्रीशङ्कराचार्यभगवत्पादानाम् अष्टोत्तरशतनामावलिः
ध्यानम्
कैलासाचल मध्यस्थं कामिताभीष्टदायकम् ।
ब्रह्मादिप्रार्थनाप्राप्तदिव्यमानुषविग्रहम् ॥
भक्तानुग्रहणैकान्त शान्त स्वान्त समुज्ज्वलम् ।
संयज्ञं सय्ँयमीन्द्राणां सार्वभौमं जगद्गुरुम् ॥
किङ्करीभूतभक्तैनः पङ्कजातविशोषणम् ।
ध्यायामि शङ्कराचार्यं सर्वलोकैकशङ्करम् ॥
- श्रीशङ्ककराचार्यवर्याय नमः
- ब्रह्मानन्दप्रदायकाय नमः
- अज्ञानतिमिरादित्याय नमः
- सुज्ञानाम्बुधिचन्द्रमसे नमः
- वर्णाश्रमप्रतिष्ठात्रे नमः
- श्रीमते नमः
- मुक्तिप्रदायकाय नमः
- शिष्योपदेशनिरताय नमः
- भक्ताभीष्टप्रदायकाय नमः
- सूक्ष्मतत्त्वरहस्यज्ञाय नमः
- कार्याकार्यप्रबोधकाय नमः
- ज्ञानमुद्राञ्चितकराय नमः
- शिष्यहृत्तापहारकाय नमः
- परिव्राजाश्रमोद्धर्त्रे नमः
- सर्वतन्त्रस्वतन्त्रधिये नमः
- अद्वैतस्थापनाचार्याय नमः
- साक्षाच्छङ्कररूपधृते नमः
- षण्मतस्थापनाचार्याय नमः
- त्रयीमार्गप्रकाशकाय नमः
- वेदवेदान्ततत्त्वज्ञाय नमः
- दुर्वादिमतखण्डनाय नमः
- वैराग्यनिरताय नमः
- शान्ताय नमः
- संसारार्णवतारकाय नमः
- पसन्नवदनाम्भोजाय नमः
- परमार्थप्रकाशकाय नमः
- पुराणस्मृतिसारज्ञाय नमः
- नित्यतृप्ताय नमः
- महते नमः
- शुचये नमः
- नित्यानन्दाय नमः
- निरातङ्काय नमः
- निःसङ्गाय नमः
- निर्मलात्मकाय नमः
- निर्ममाय नमः
- निरहङ्काराय नमः
- विश्ववन्द्यपदाम्बुजाय नमः
- सत्त्वप्रधानाय नमः
- सद्भावाय नमः
- सङ्ख्यातीतगुणोज्वलाय नमः
- अनघाय नमः
- सारहृदयाय नमः
- सुधिये नमः
- सारस्वतप्रदाय नमः
- सत्यात्मने नमः
- पुण्यशीलाय नमः
- साङ्ख्ययोगविचक्षणाय नमः
- तपोराशये नमः
- महातेजसे नमः
- गुणत्रयविभागविदे नमः
- कलिघ्नाय नमः
- कालकर्मज्ञाय नमः
- तमोगुणनिवारकाय नमः
- भगवते नमः
- भारतीजेत्रे नमः
- शारदाह्वानपण्डिताय नमः
- धर्माधर्मविभागज्ञाय नमः
- लक्ष्यभेदप्रदर्शकाय नमः
- नादबिन्दुकलाभिज्ञाय नमः
- योगिहृत्पद्मभास्कराय नमः
- अतीन्द्रियज्ञाननिधये नमः
- नित्यानित्यविवेकवते नमः
- चिदानन्दाय नमः
- चिन्मयात्मने नमः
- परकायप्रवेशकृते नमः
- अमानुषचरित्राढ्याय नमः
- क्षेमदायिने नमः
- क्षमाकराय नमः
- भव्याय नमः
- भद्रप्रदाय नमः
- भूरिमहिम्ने नमः
- विश्वरञ्जकाय नमः
- स्वप्रकाशाय नमः
- सदाधाराय नमः
- विश्वबन्धवे नमः
- शुभोदयाय नमः
- विशालकीर्तये नमः
- वागीशाय नमः
- सर्वलोकहितोत्सुकाय नमः
- कैलासयात्रासम्प्राप्तचन्द्रमौलिप्रपूजकाय नमः
- काञ्च्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षिताय नमः
- श्रीचक्रात्मकताटङ्कतोषिताम्बामनोरथाय नमः
- श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकाय नमः
- चतुर्दिक्चतुराम्नाय प्रतिष्ठात्रे नमः
- महामतये नमः
- द्विसप्ततिमतोच्छेत्रे नमः
- सर्वदिग्विजयप्रभवे नमः
- काषायवसनोपेताय नमः
- भस्मोद्धूलितविग्रहाय नमः
- ज्ञानात्मकैकदण्डाढ्याय नमः
- कमण्डलुलसत्कराय नमः
- गुरुभूमण्डलाचार्याय नमः
- भगवत्पादसंज्ञकाय नमः
- व्याससन्दर्शनप्रीताय नमः
- ओम् ऋष्यशृङ्गपुरेश्वराय नमः
- सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकाय नमः
- चतुष्षष्टिकलाभिज्ञाय नमः
- ब्रह्मराक्षसमोक्षदाय नमः
- श्रीमन्मण्डनमिश्राख्यस्वयम्भूजयसन्नुताय नमः
- तोटकाचार्यसम्पूज्याय नमः
- पद्मपादार्चिताङ्घ्रिकाय नमः
- हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकाय नमः
- सुरेश्वराख्यसच्छिष्यसन्न्यासाश्रमदायकाय नमः
- नृसिंहभक्ताय नमः
- सद्रत्नगर्भहेरम्बपूजकाय नमः
- व्याख्यासिंहासनाधीशाय नमः
- जगत्पूज्याय नमः
- जगद्गुरवे नमः
॥ श्रीमच्छङ्करभगवत्पादाचार्यस्वामिने नमः ॥
No comments:
Post a Comment