Sunday, January 20, 2013

Sanskrit puzzles with answers

Courtesy: Sri.Sankarsh Tripati
 
Following are the few puzzles wherein the 4th part of the sloka gives the answer to the preceding 3 parts:
 
(क)
कस्तूरी जायते कस्मात्, को हन्ति करिणा कुलम्।
किं कुर्यात् कातरो युद्धे, मृगात् सिंहः पलायते॥
अत्र उत्तरम्। यथा -
कस्तूरी कस्मात् जायते ?
मृगात्।
करिणा कुलम् को हन्ति ?
सिंहः।
कातरो युद्धे किं कुर्यात् ?
पलायते।
(ख)
सीमन्तिनीषु का शान्ता, राजा कोऽभूद्गुणोत्तम:।
विद्वद्भिः का सदा वन्द्या, अत्रैवोक्तं न बुध्यते॥
अत्र चरणात् आदि-अन्त अक्षरयोः मेलनेन उत्तरम्। यथा -
सीमन्तिनीषु का शान्ता ?
सीता।
राजा कोऽभूद्गुणोत्तमः ?
रामः।
विद्वद्भिः का सदा वन्द्या ?
विद्या।
(ग)
कं संजघान कृष्णः का शीतलवाहीनी गंगा।
के दारपोषणरताः कं बलवन्तं न बाधते शीतम्॥
अत्र प्रतिपादस्य उत्तरम् तत्रैव। यथा -
कृष्णः कं संजघान?
कंसम्।
शीतलवाहीनी गंगा का ?
काशी।
दारपोषणरताः के ?
केदारपोषणरताः। (सजल क्षेत्रस्य पोषणकर्त्ता)
शीतम् बलवन्तं कं न बाधते?
कम्बलवन्तम्। (कम्बलयुक्तम्)
(घ)
भोजनान्ते च किं पेयं, जयन्तः कस्य वै सुतम्।
कथं विष्णुपदं प्रोक्तं, तक्रं शक्रस्य दुर्लभम्॥
अत्र उत्तरम्। यथा -
भोजनान्ते किं पेयं?
तक्रम्।
जयन्तः कस्य वै सुतम्?
शक्रस्य।
विष्णुपदं कथं प्रोक्तं?
दुर्लभम्।
 

No comments:

Post a Comment