courtesy: sri.bryan Hill
नारायणहृदयम्
आचम्य प्राणानायम्य देशकालौ स्मृत्वा। अस्मद्गुर्वन्तर्गत - श्रीभारतीरमणमुख्यप्राणान्तर्गत - श्रीलक्ष्मीनारायणप्रेरणया श्रीलक्ष्मीनारायणप्रीत्यर्थं ममाभीष्टसिद्ध्यर्थं सङ्कलीकरणरीत्या सम्पुटीकरणरीत्या वा नारायणहृदयस्य सकृदावर्तनं करिष्ये ।
अस्य श्रीनारायणहृदयस्तोत्रमन्त्रस्य भार्गवर्षये नमः शिरसि । अनुष्टुप् छन्दसे नमः मुखे । श्रीलक्ष्मीनारायणदेवतायै नमः हृदये । ऐं बीजाय नमः गुह्ये । ह्वीं शक्त्यै नमः पादयोः । क्लीं कीलकाय नमः सर्वाङ्गे । श्रीलक्ष्मीनारायणप्रीत्यर्थे जपे विनियोगः ।
अथ करन्यासः ।
ॐ नारायणः परं ज्योतिरित्यङ्गुष्ठाभ्यां नमः ।
ॐ नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः ।
ॐ नारायणः परो देवेति मध्यमाभ्यां नमः ।
ॐ नारायणः परं धामेति अनामिकाभ्यां नमः ।
ॐ नारायणः परो धर्मेति कनिष्ठिकाभ्यां नमः
ॐ नारायणः परो वेदेति करतलकरपृष्ठाभ्याम् नमः ।
अथ हृदयादि न्यासः -
ॐ नारायणः परं ज्योतिरिति नमः ।
ॐ नारायणः परं ब्रह्मेति शिरसे स्वाहा ।
ॐ नारायणः परो देवेति शिकायै वषट् ।
ॐ नारायणः परं धामेति कवचाय हुं ।
ॐ नारायणः परो धर्मेति नेत्राभ्यां वौषट्
ॐ नारायणः परो वेदेति अस्त्राय फट् ।
ॐ भूर्भुवस्वरोमिति दिग्बन्धः ।
ॐ भूर्भुवस्वरोमिति दिग्बन्धः ।
अथ ध्यानम् ।
उद्यद्भास्वत्समाभासः चिदानन्दैकदेहवान् ।
शङ्खचक्रगदापद्मधरो ध्येयोऽहमीश्वरः ॥१॥
लक्ष्मीधराभ्यामाश्लिष्टः स्वमूर्तिगणमध्यगः ।
ब्रह्मवायुशिवाहीशविपैः शक्रादिकैरपि ॥२॥
सेव्यमानोऽधिकं भक्त्या नित्यनिश्शेषशक्तिमान् ।
मूर्तयोऽष्टावपि ध्येयाश्चक्रशङ्खवराभयैः ॥३॥
उद्यदादित्यसङ्काशं पीतवाससमच्युतम् ।
शङ्खचक्रगदापाणिं ध्यायेल्लक्ष्मीपतिं हरिम् ॥४॥

॥ ॐ नमो नारायणाय इति मन्त्रजपं कृत्वा ॥
मूलाष्टकम्
ॐ नारायणः परं ज्योतिरात्मा नारायणः परः ।
नारायणः परं ब्रह्म नारायण नमोऽस्तु ते ॥१॥
नारायणः परो देवो धाता नारायणः परः ।
नारायण परो ध्याता नारायण नमोऽस्तु ते ॥२॥
नारायणः परं धाम ध्यानं नारायणः परः ।
नारायणः परो धर्मो नारायण नमोऽस्तु ते ॥३॥
नारायणः परो देवो विद्या नारायण परः ।
विश्वं नारायणः साक्षान्नारायण नमोऽस्तु ते ॥४॥
नारायणद्विधिर्जातो नारायणाच्छिवः ।
जातो नारायणादिन्द्रो नारायण नमोऽस्तु ते ॥५॥
रविर्नारायणस्तेजश्चान्द्रं नारायणं महः ।
वह्निर्नारायणः साक्षान्नारायण नमोऽस्तु ते ॥६॥
नारायण उपास्यः स्याद्गुरुर्नारायणः परः ।
नारायणः परो बोधो नारायण नमोऽस्तु ते ॥७॥
नारायणः फलं मुक्यं सिद्धिर्नारायणः सुखम् ।
सेव्यो नारायणः शुद्धो नारायण नमोऽस्तु ते ॥८॥

॥ इति मूलाष्टकम् ॥
प्रार्थनादशकम्
प्रार्थनादशकम्
नारायणस्त्वमेवासि दहराख्ये हृदि स्थितः ।
प्रेरकः प्रेर्यमाणानां त्वया प्रेरितमानसः ॥१॥
त्वदाज्ञां शिरसा धृत्वा भजामि जनपावनीम् ।
नानोपासनमार्गाणां भवकृद्भावबोधकः ॥२॥
भावार्थकृद्भावभूतो भावसौख्यप्रदो भव ।
त्वन्मायामोहितं विश्वं त्वयैव परिकल्पितम् ॥३॥
त्वदधिष्ठानमात्रेण सैव सर्वार्थकरिणी ।
त्वमेव तां पुरस्कृत्य मम कामान्समर्पय ॥४॥
न मे त्वदन्यस्त्राताऽस्ति त्वदन्यं नहि दैवतम् ।
त्वदन्यं नहि जानामि पालकं पुण्यवर्धनम् ॥५॥
यावत् सांसारिको भावो मनस्थो भावनात्मकः ।
तावत् सिद्धिर्भवेत् सद्यः सर्वथा सर्वदा विभो ॥६॥
पापिनामहमेवाग्र्यो दयालूनां त्वमग्रणीः ।
दयनीयो मदन्योऽस्ति तव कोऽत्र जगत्त्रये ॥७॥
त्वयाऽप्यहं न सृष्टश्चेन्न स्यात् तव दयालुता ।
आमयो नैव सृष्टश्चेदौषधस्य वृथोदयः ॥८॥
पापसङ्घपरिक्रान्तः पापात्मा पापरूपधृक् ।
त्वदन्यः कोऽत्र पापेभ्यस्त्राता मे जगतीतले ॥९॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥१०॥
प्रार्थानदशकं चैव मूलाष्टकमुदाहृतम् ।
यः पठेच्छृणुयान्नित्यं तस्य लक्ष्मीः स्थिरा भवेत् ॥११॥
नारायणस्य हृदयं सर्वाभीष्टफलप्रदम् ।
लक्ष्मीहृदयकं स्तोत्रं यदि चेत्तद्विना कृतम् ॥१२॥
सत्सर्वं निष्फलं प्रोक्तं लक्ष्मीः क्रुध्यति सर्वदा ।
एतत् सम्पुटितं स्तोत्रं सर्वकामफलप्रदम् ॥१३॥
लक्ष्मीहृदयकं चैव तथा नारायणात्मकम् ।
जपेद्यः सम्पुटिकृत्य सर्वाभीष्टमवाप्नुयात् ॥१४॥
नारायणस्य हृदयमादौ जप्त्वा ततः परम् ।
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः ॥१५॥
पुनर्नारायणं जप्त्वा पुनर्लक्ष्मीकृतं जपेत् ।
पुनर्नारायणं जाप्यं सङ्कलीकरणं भवेत् ॥१६॥
एवं मध्ये द्विवारेण जपेत्सङ्कलितं हि तत् ।
लक्ष्मीहृदयकं स्तोत्रं सर्वकामप्रकाशितम् ॥१७॥
तद्वज्जपादिकं कुर्यादेतत् सङ्कलितं शुभम् ।
सर्वान्कामानवाप्नोति आधिव्याधिभयं हरेत् ॥१८॥
गोप्यमेतत् सदा कुर्यान्न सर्वत्र प्रकाशयेत् ।
इति गुह्यतमं शास्त्रमादौ ब्रह्मादिकैः पुरा ॥१९॥
तस्मात्सर्वप्रयत्नेन गोपयेत् साधयेत् सुधीः ।
यत्रैतत्पुस्तकं तिष्ठेल्लक्ष्मीनारायणात्मकम् ।
भूतपैशाचवेतालाः न स्थितास्तत्र सर्वदा ॥२०॥
लक्ष्मीहृदयकं प्रोक्तं विधिना साधयेत्सुधीः ।
भृगुवारे च रात्रौ च पूजयेत्पुस्तकद्वयम् ॥२१॥
सर्वथा सर्वदा सत्यं गोपयेत्साधयेत्सुधीः ।
गोपनात् साधनाल्लोके धन्यो भवति तत्त्वतः ॥२२॥

॥इत्यथर्वणरहस्ये उत्तरभागे नारायणहृदयम् ॥
No comments:
Post a Comment