Wednesday, February 8, 2012

shiva stuti of ashvatthAma

Courtesy: Sri.bryan Hill
 shiva stuti of ashvatthAma from mahAbhArata, sauptikaparva 7th adhyAya with PDF
 
As with all stotras, stutis, etc., addressed, antaryAmI - mAhima is to be understood: 
 
द्रौणिरुवाच ।
उग्रं स्थाणुं शिवं रुद्रं शर्वमीशानमीश्वरं । गिरिशं वरदं देवं भवभावनमव्ययम् ॥२॥
शितिकण्ठमजं रुद्रं दक्षक्रतुहरं हरम् । विश्वरूपं विरूपाक्षं बहुरूपमुमापतिम् ॥३॥
श्मशानवासिनं दृप्तं महागणपतिं विभुम् । खट्वाङ्गधारिणं मुण्डं जटिलं ब्रह्मचारिणम् ॥४॥
मनसा ह्यनुचिन्त्यैनं दुष्करेणाल्पचेतसा । अद्य भूतोपहारेण यक्ष्ये त्रिपुरघातिनम् ॥५॥
स्तुतं स्तुत्यं स्तूयमानममोघं कृत्तिवाससम् । विलोहितं नीलकण्ठमसह्यं दुर्निवारणम् ॥६॥
शुक्रं विश्वसृजं ब्रह्म ब्रह्मचारिणमेव च । व्रतवन्तं तपोनिष्ठमनन्तं तपतां गतिम् ॥७॥
बहुरूपं गणाध्यक्षं त्र्यक्षं पारिषदप्रियम् । धनाध्यक्षप्रियसखं गौरीहृदयवल्लभम् ॥८॥
कुमारपितरं पिङ्गं गोवृषोत्तमवाहनम् । कृत्तिवाससमत्युग्रमुमातोषणतत्परम् ॥९॥
परं परेभ्यः परमं परं यस्मान्न विद्यते । इष्वस्त्रोत्तमभर्तारं दिगन्तं देशरक्षिणम् ॥१०॥
हिरण्यकवचं देवं चन्द्रमौलिविभूषणम् । प्रपद्ये शरणं देवं परमेण समाधिना ॥११॥
 इमां चेदापदं घोरां तराम्यद्य सुदुस्तराम् । सर्वभूतोपहारेण यक्ष्येऽहं शुचिना शुचिम् ॥१२॥ 
 

No comments:

Post a Comment