Wednesday, December 15, 2010

Saastaaram pranmaamyaham

 
 
Courtesy: Sri kamakotmandali.com



लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् |
पार्वतीहृदयानन्दं शास्तारं प्रणमाम्यहम् || १ ||

विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् |
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् || २ ||

मत्तमातङ्गगमनं कारुण्यामृतपूरितम् |
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् || ३ ||

अस्मत्कुलेश्वरं देवमस्मच्छत्रुविनाशनम् |
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् || ४ ||

पाण्ड्येशवंशतिलकं केरळे केळिविग्रहम् |
आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् || ५ ||

त्रयम्बकपुराधीशं गणाधिपसमन्वितम् |
गजारूढमहं वन्दे शास्तारं प्रणमाम्यहम् || ६ ||

शिववीर्यसमुद्भूतं श्रीनिवासतनूद्भवम् |
शिखिवाहानुजं वन्दे शास्तारं प्रणमाम्यहम् || ७ ||

यस्य धन्वन्तरिर्माता पिता देवो महेश्वरः |
तं शास्तारमहं वन्दे महारोगनिवारणम् || ८ ||

भूतनाथ सदानन्द सर्वभूतदयापर |
रक्ष रक्ष महाबाहो शास्त्रे तुभ्यं नमो नमः || ९ ||

यस्य धन्वन्तरिर्माता पिता देवो महेश्वरः |
तं शास्तारमहं वन्दे महावैद्यं दयानिधिम् || १० ||

शबरिगिरिनिवासं शान्तहृत्पद्महंसं
शशिरुचिमृदुहासं श्यामलाम्बोधभासम् |
कलितरिपुनिरासं कान्तमुत्तुङ्गनासं
नतिनुतिपरदासं नौमि पिञ्छावतंसम् || ११ ||

शबरिगिरिनिशान्तं शङ्खकुन्देन्दुदन्तं
शमधनहृदिभान्तं शत्रुपालीकृतान्तम् |
सरसिजरिपुकान्तं सानुकम्पेक्षणान्तं
कृतनुतविपदन्तं कीर्तयेऽहं नितान्तम् || १२ ||

शबरिगिरिकलापं शास्त्रवद्ध्वान्तदीपं
शमितसुजनतापं शान्तिहानैर्दुराप् |
करधृतसुमचापं कारणोपात्तरूपं
कचकलितकलापं कामये पुष्कलाभम् || १३ ||

शबरिगिरिनिकेतं शङ्करोपेन्द्रपोतं
शकलितदितिजातं शत्रुजीमूतपातम् |
पदनुतपुरहूतं पालिताशेषभूतं
भवजलनिधिभोगं भावये नित्यभूतम् || १४ ||

शबरिविहृतिलोलं श्यामलोदारचेलं
शतमखरिपुकालं सर्ववैकुण्ठबालम् |
नतजनसुरजालं नाकिलोकानुकूलं
नवमयमणिमालं नौमि निःशेषमूलम् || १५ ||

सरसिजदळनेत्रं सारसारातिवक्त्रं
सजलजलदगात्रं सान्द्रकारुण्यपात्रम् |
सहतनयकळत्रं साम्बगोविन्दपुत्रं
सकलविबुधमित्रं सन्नमामः पवित्रम् || १६ ||

श्रितानन्दचिन्तामणिश्रीनिवासं
सदा सच्चिदानन्दपूर्णप्रकाशम् |
उदारं सदारं सुराधारमीशं
परञ्ज्योतिरूपं भजे भूतनाथम् || १७ ||

विभुं वेदवेदान्तवेद्यं वरिष्ठं
विभूतिप्रदं विश्रुतं ब्रह्मनिष्ठम् |
विभास्वत्प्रभावप्रभुं पुष्कलेष्टं
परञ्ज्योतिरूपं भजे भूतनाथम् || १८ ||

परित्राणदक्षं परब्रह्मसूत्रं
सुरश्चारुगात्रं भवध्वान्तमित्रम् |
परं प्रेमपात्रं पवित्रं विचित्रं
परञ्ज्योतिरूपं भजे भूतनाथम् || १९ ||

परेशं प्रभुं पूर्णकारुण्यरूपं
गिरीशादि पीठोज्ज्वलच्चारुदीपम् |
सुरेशादि संसेवितं सुप्रतापं
परञ्ज्योतिरूपं भजे भूतनाथम् || २० ||

गुरुं पूर्णलावण्यपादादिकेशं
गरीयं महत्कोटिसूर्यप्रकाशम् |
कराम्बोरुहन्यस्तवेत्रं पवित्रं
परञ्ज्योतिरूपं भजे भूतनाथम् || २१ ||

हरीशानसंयुक्तशक्त्येकवीरं
किरातावतारं कृपापाङ्गपूरम् |
कीरीटावतंसोज्ज्वलत् पिञ्छभारं
परञ्ज्योतिरूपं भजे भूतनाथम् || २२ ||

महायोगपीठोज्ज्वलन्तं महान्तं
महावाक्यसारोपदेशं सुशान्तम् |
महर्षिप्रहर्षप्रदं ज्ञानकान्तं
परञ्ज्योतिरूपं भजे भूतनाथम् || २३ ||

दुरन्ततापत्रयपापमोचकं
निरन्तरानन्दगतिप्रदायकम् |
परन्तपं पाण्ड्यनृपालबालकं
चिरन्तनं भूतपतिं तमाश्रये || २४ ||
--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.

  Every moment, thank God

No comments:

Post a Comment