AnandatIrtha on abheda shrutis from the vishhNutattvanirNaya:
अहं ब्रह्मास्मि
तद्योऽहं सोऽसौ योऽसौ सोऽहम्
यो सावादित्ये पुरुषः सोऽहमस्मि स एवाहमस्मीत्यादि तु अन्तर्याम्यपेक्षया ।
स यश्चायं पुरुषे यश्चासावदित्ये स एकः
अ इति ब्रह्म तत्रागतमहमिति तस्योपनिषदहमिति
अहंनामा हरिर्नित्यं अहेयत्वात् प्रकीर्तितः ।
त्वं चासौ प्रतियोगित्वात् परोक्षत्वात् स इत्यपि ।
सर्वान्तर्यामिणि हरौ अस्मच्छब्दविभक्तयः ।
युष्मच्छब्दगताश्चैव सर्वास्तच्छब्दगा अपि ।
सर्वशब्दगताश्चैव वचनान्यखिलान्यपि ।
स्वतन्त्रत्वात् प्रवर्तन्ते व्यावृत्तेऽप्यखिलात् सदा ।
तत्सम्बन्धात्तु जीवेषु तत्सम्बन्धादचित्स्वपि ।
वर्तन्ते उपचारेण तिङ्पदान्यखिलान्यपि ।
तस्मात् सर्वगतो विष्णुरेको भिच्च ततो बहुः । इति नारायनश्रुतिः ।
सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् । इति भगवद्वचनम् ।
" The Lord who is within me is brahman i.e. guNapUrNa.
The Lord who is in me is in the sun and the Lord who is in the sun is in me.
The Lord who is in Aditya is in me.
In all these reference is to antaryAmin i.e. The Lord present within.
The Lord who is in purushha and in Aditya is one.
अ refers to brahman and the word aham conveys brahman. This is the secret name of brahman.
The Lord is called aham since nobody can leave Him. He is called tvam as He is always in front. He is called saH as He is beyond the senses.
All case suffix forms of the words asmad, yushhmad and tat convey the Lord. All numbers convey the Lord though He is one. All these convey Him since He is independent and supreme. These convey the jIvas and jaDa only secondarily. The verbal suffixes also convey Him. Lord vishhNu is everywhere. He is distinct from all and He has many forms. Thus states the nArAyaNa shruti.
Such knowledge of the Lord which conveys the fact that He is present in all beings which are mutually distinct and distinct from Him. He is imperishable. He has no internal distinctions (svagatabhedavarjita) and is supreme is sAttvika knowledge. This is stated by the Lord in the bhagavadgItA. "
तत्र आद्ये वाक्ये (अहं ब्रह्मास्मीति वाक्ये) अहं शब्देन अन्तर्यामिणं निर्दिश्य तस्य देशकालपूर्णत्वलक्षणं ब्रह्मत्वमुच्यते ।
द्वितीये (योऽहं सोऽसौ) वाक्ये स्थानभेदेन अन्तर्यामिणोऽपि भेदशङ्कायां स्वान्तर्यामिणः सूर्यान्तर्गतेन परमात्मना ऐक्यमभिधाय पुनरिन्द्रार्जुनादिवदान्तरविशेषनिरासाय योऽसौ सोऽहमिति सूर्यान्तर्गतस्य स्वान्तर्यामिणा ऐक्यमुच्यते । तृतीयेऽपि एवमेव ।
अनेन तत् त्वमस्यादिवाक्ये त्वंशब्देन अन्तर्यामी इत्यपि सूचितम् ।
विभक्तेषु परस्परं परमेश्वराच्च भिन्नेषु सर्वभूतेषु चेतनाचेतनेषु अविभक्तं स्वगतभेदवर्जितम् एकं भावम् सर्वोत्तमम्
Windows 7: It works the way you want. Learn more.
knr
--
If God brings you to it, He will bring you through it.
Happy moments, praise God.
Difficult moments, seek God.
Quiet moments, worship God.
Painful moments, trust God.
Every moment, thank God
No comments:
Post a Comment