|| *ॐ* ||
" *वन्दे संस्कृतमातरम्* "
" *लौकिकन्यायकोशः* " ( १२९ )
" *अधिकरणसिद्धान्तन्यायः* "
एकस्मिन् अधिकरणे विषयः , विशयः( संशयः) , पूर्वपक्षः , उत्तरपक्षः , निर्णयः च इति पञ्चानाम् अङ्गानां साहाय्येन कस्यचन विशिष्टस्य सिद्धान्तस्य स्थापनं भवति ।
" अधिकरणं नाम यमर्थमधिकृत्य प्रवर्तते कर्ता " ( चरकसंहिता पृ. १०२९ )
तस्य सिद्धान्तस्य अवगमनाय यदा अपरः सिद्धान्तः आवश्यकः भवति तत् सूचयितुम् अस्य न्यायस्य प्रयोगः भवति । यस्य विषये किमपि कथितं भवति तत् अधिकरणम् ।
" यमर्थमधिकृत्य उच्यते तत् अधिकरणम् " ( कौटिलीय -- पृ. ४५७ )
*卐卐ॐॐ卐卐*
डाॅ. वर्षा प्रकाश टोणगांवकर
पुणे / महाराष्ट्रम्
🌴🌴
No comments:
Post a Comment