Courtesy: Sri.Pradip nath
रजकस्य हीरकम्।
कश्चन रजकः आसीत्। तस्य लघुः कश्चन गर्दभः आसीत्।
सः रजकः तस्य गर्दभम् अतीव प्रीणाति स्म। गर्दभोऽपि स्वीयं स्वामिनम् अत्यन्तं प्रीणाति स्म, आदिनं च तस्य कार्यं करोति स्म।
एकदा सः रजकः स्वीयं गर्दभं नीत्वा मार्गे गच्छति स्म। तदा सः मार्गे कञ्चन प्रस्तरखण्डम् अपश्यत्। सः प्रस्तरखण्डः द्योतते स्म। रजकः तदा तं प्रस्तरखण्डम् उन्नीय अपश्यत् सः प्रस्तरखण्डः अतीव सुन्दरः आसीत्। तदानीं सः रजकः केनचित् दृढरज्जुना तं प्रस्तरखण्डं बद्ध्वा तस्य गर्दभस्य कण्ठे अधारयत्।
ततः सः रजकः सन्तुष्टः अभवत्, तस्य गर्दभोऽपि सन्तुष्टः अभवत्। एवमेव तौ उभावपि मार्गे चलतः स्म, तदानीं सहसा कश्चन मनुष्यः गर्दभस्य कण्ठे लम्बितं तं पाषाणखण्डम् अपश्यत् ।
सः मनुष्यः अत्यन्तम् आश्चर्येण तं पाषाणं दृष्ट्वा अचिन्तयत्, एतत्तु हीरकमेव। एतद् हीरकमिति सः रजकः न जानाति इत्येवं विचिन्त्य सः मनुष्यः रजकस्य समीपं गत्वा अब्रवीत् भोः भ्रातः! भवान् गर्दभस्य कण्ठे पाषाणं किमर्थम् अलम्बयत्?
रजकः तदा अब्रवीत् महोदय! अहं मार्गे एतं प्राप्य मम प्रियस्य गर्दभस्य कण्ठे अधारयम्। तदारभ्य मम एषः गर्दभः अत्यन्तं सन्तुष्टः अपिच मम सर्वम् आदेशं सः मन्यते।
रजकस्य वचः श्रुत्वा सः मनुष्यः अचिन्तयत् यद् एषः रजकः एतस्य मूल्यं किम् इति न जानाति। एवं विचिन्त्य सः मनुष्यः रजकं लोभं दर्शयित्वा अब्रवीत् हे महोदय! एतं पाषाणं मह्यं ददातु, अहं भवते शतं रूप्यकाणि दास्यामि।
रजकः तस्य वचः श्रुत्वा किञ्चित् विचार्य अब्रवीत् नहि महोदय! अहं शतं रूप्यकाणि नीत्वा किं करिष्यामि! एतं पाषाणं प्राप्य तु मम गर्दभः सन्तुष्टः अस्ति, अहमपि सन्तुष्टः एव।
ततः सः मनुष्यः रजकेन सह वार्तां कुर्वन् अग्रे गच्छति स्म। सः रजकाय पञ्च शतं रूप्यकाणि दातुमपि सज्जः अभवत् किन्तु सः रजकः तदपि निराकरोति स्म। सः मनुष्यः अत्यन्तं चतुरः आसीत्, अतः तं रजकम् अनुगच्छति स्म। तयोः वार्तालापसमये एकवारमपि सः मनुष्यः रजकं न अब्रवीत् यत् तत् हीरमकम् अस्ति इति।
ततः रजकम् अनुगच्छन् सः मनुष्यः मार्गे किञ्चित् विरम्य दूरतः पश्यति स्म यत् सः कुत्र गच्छति इति।
किञ्चित् अनन्तरं पुनः सः मनुष्यः रजकस्य समीपं धावित्वा गत्वा अपश्यत् गर्दभस्य कण्ठे तद् हीरकं नास्ति इति। ततः सः उच्चैः चीत्कारं कृत्वा रजकम् अब्रवीत् अरे महोदय! भवतः गर्दभस्य कण्ठात् पाषाणः कुत्र अगच्छत्? तदा रजकः विनयेन अब्रवीत् महाशय! भवान् यदा पृष्ठतः दूरे आसीत् तदा अन्यः कश्चन आगत्य मह्यं पञ्चाशत् सहस्रं रूप्यकाणि दत्वा एतं प्रस्तरखण्डं नीतवान्।
रजकस्य तद् वचः श्रुत्वा सः मनुष्यः हताशः भूत्वा चीत्कारं कृत्वा रजकम् अब्रवीत् अरे मूर्ख! त्वं न जानासि तस्य पाषाणखण्डस्य मूल्यम्! तत्तु बहुमूल्यं रत्नं हीरकम् आसीत् यस्य मूल्यं दशलक्षं रूप्यकाणि आसीत्।
रजकः तदा स्मित्वा अब्रवीत् महोदय! अहं तु न जानामि यद् एतस्य मूल्यं बहु अस्ति, किन्तु भवान् तु जानाति एव। तथापि भवान् मह्यं केवलं पञ्च शतं रूप्यकाणि हि दातुम् उद्यतः आसीत्। यदि भवान् मह्यं दशसहस्रं रूप्यकाणि अपि अदास्यत् तर्हि अहं सन्तुष्टः भूत्वा तद् हीरकं भवते हि अदास्यम्। अतः भवान् हि चिन्तयतु यत् मूर्खः अहम् उत भवान्!!
*-प्रदीपः!*
No comments:
Post a Comment