*श्रीरामायणकथा, सुन्दरकाण्डम्।*
(पञ्चमः सर्गः)
सीतारावणयोः संवादः।
(द्वितीयः खण्डः)
रावणस्य नीचवचनानि श्रुत्वा सीता मध्ये तृणं स्थापयित्वा अवदत् हे लङ्केश! त्वादृशाय विदुषे एतद् उचितं भवेत् यत् त्वं स्वमर्यादायाः उल्लङ्घनम् अकृत्वा मत्तः तव मनः अपसार्य त्वं तव राज्ञीः प्रीणीहि। स्मर्यतां यत् पापी पुरुषः कदापि स्वीये उद्देश्ये सफलः न भवति। अहम् उत्तमकुले जन्म लभमाना पतिपरायणा पत्नी अस्मि। त्वं मां कदापि मम सतीत्वात् विचलितां कर्तुं न शक्नोषि। मम प्राणेषु स्थितेषु तव एतं कुत्सितप्रस्तावम् अहं केनापि प्रकारेण न स्वीकरिष्यामि। यदि त्वयि ईषदपि न्यायबुद्धिः अभविष्यत् तर्हि त्वम् इतरस्त्रीणामपि तादृशं रक्षणम् अकरिष्यः यादृशं तव राज्ञीनां सतीत्वस्य रक्षणं करोषि।
किम् अस्यां लङ्कायाम् एवं कश्चिदपि बुद्धिमान् पुरुषः नास्ति यः त्वाम् एतां साधारणकथां बोधयेत्? त्वं तु आत्मानं नीतिमन्तं मन्यसे, पुनः नीतेः एतद् वाक्यं कथं विस्मरसि यद् यस्य राज्ञः इन्द्रियाणि तस्य वशे न भवन्ति, सः राजा कियान् वा ऐश्वर्यवान् भवतु नाम,अन्ते सः रसातलं गच्छति। तस्य सर्वस्वं नष्टं भवति। हे मूढ! त्वम् इदानीं यावत् माम् अभिज्ञातुं न अशक्नोः। अहं तव ऐश्वर्यम्, राज्यम्, सम्पत्तिः इत्यादीनां लोभेन वशीभूता नास्मि। अयमपि तव वृथा प्रलापः यदहं रघुकुलशिरोमणिना रामचन्द्रेण सह मेलितुं न शक्ष्यामि। अरे मूर्ख! सः तु सर्वदा मम हृदये निवसति। तस्मात् मां कश्चिदपि पृथक् कर्तुं न शक्नोति। तेन सह मम तादृशः सम्बन्धः अस्ति यादृशः सूर्यस्य सम्बन्धः तस्य प्रकाशेन सह भवति। अतः अहं तस्य अस्मि, सर्वदा च तस्यैव भूत्वा स्थास्यामि।
यदि त्वं सम्यग् विचिन्त्य एतद् मन्येथाः यत् त्वं माम् अपहृत्य कञ्चन भयङ्करापराधम् अकरोः, अपिच पुनः मां प्रत्यर्पयितुं यदि तव भीतिः अस्ति, तर्हि अहं तुभ्यम् अभयदानं यच्छन्ती वचनं ददामि यत् त्वं मां तस्य समीपं प्रापय, अहं तस्य पक्षतः त्वां क्षमां करिष्यामि। यदि त्वम् इदानीमपि तव कुकृत्ये दृढः भवेः तर्हि विश्वासं कुरु यत् तव मृत्युः निश्चितः अस्ति। श्रीरामस्य बाणात् त्वां कश्चिदपि रक्षितुं न शक्ष्यति। अतः अहं पुनः वदामि यत् त्वं सावधानः भव। स्वेन सह लङ्कायाः लङ्कावासिनां च विनाशं मा कारयिष्ठाः। अत्रैव तव समस्तराक्षसकुलस्य च कल्याणम् अस्ति।
*-प्रदीपः!*
No comments:
Post a Comment