Saturday, November 23, 2024

Srimad Ramayana Kishkinda kandam part 8a in sanskrit

*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(अष्टमः सर्गः)
सुग्रीवहनुमतोः संवादः। 
(द्वितीयः खण्डः)

मन्येऽहं सीता मया पुनः कदापि न लभ्येत। न जाने सा कथम् इदानीं जीवनं यापयति! राजहंसानां शब्दं श्रुत्वा निद्रात्यागं कुर्वती सीता न जाने इदानीं किं करोति! अयं शरदृतुः ताम् अधिकव्याकुलां कुर्यात्।  एवं चिन्तयन् रामः सीतायाः स्मरणं कृत्वा विलापं करोति स्म।

तत्समये लक्ष्मणः फलानि आनेतुं गच्छति स्म। यदा लक्ष्मणः फलानि संगृह्य समीपवर्तिवाटिकातः प्रत्यागच्छति स्म तदा रामस्य उपरि तस्य दृष्टिः अपतत्। लक्ष्मणं दृष्ट्वा रामः निश्वासं त्यजन् अवदत् हे लक्ष्मण! पृथिवीं जलप्लावितां कुर्वाणः गर्जितः मेघः अधुना शान्तः भूत्वा पलायत। आकाशः निर्मलः अभवत्।  चन्द्रमाः, नक्षत्रम्, सूर्यः इत्येतेषां प्रभया शरदृतोः प्रभावः स्पष्टतया दृष्टिगोचरः भवति। हंसाः मानसरोवरं त्यक्त्वा इदानीं नद्याः सिकतासु क्रीडन्ति। 

वर्षाकाले मदोन्मत्ताः भूत्वा नृत्यं कुर्वाणाः मयूराः इदानीं उद्विग्नाः अभवन्। नद्याः कल-कलनादं कुर्वती वेगमयी गतिः इदानीं मन्दा अभवत्। सूर्यस्य किरणाः मार्गस्य पङ्कान् अशोषयन्। एतेन यातायाताय मार्गाः उद्घाटिताः अभवन्। राज्ञां यात्रायाः दिनं समागतम्, परन्तु सुग्रीवः मम कुशलवार्तां न अपृच्छत् न च जानक्याः अन्वेषणम् अकारयत्।

वर्षाकालस्य चतुर्मासं यावत् सीतायाः वियोगः मत्कृते शतवर्षं यावत् दीर्घकालः अनुभूयते, परन्तु सुग्रीवः इदानीं यावत् मयि दयां न अकरोत्। न जाने मम भाग्ये किं लिखितम् अस्ति। राज्यं गतम्, देशात् बहिः अभवम्, पितुः मृत्युः अभवत्, पत्न्याः अपहरणम् अभवत्, इदानीं च अनेन वानरेण अहं छलितः अभवम्। हे वीर! तव स्मरणे अस्ति यत् सुग्रीवः प्रतिज्ञाम् अकरोत् यद् वर्षर्तोः समाप्तेः परं सः सीतायाः अन्वेषणं कारयिष्यति, परन्तु तस्य स्वार्थसिद्धेः अनन्तरं सः तस्य प्रतिज्ञां व्यस्मरत्।

अतः हे लक्ष्मण! त्वं किष्किन्धां गच्छ! तत्र गत्वा तं स्वार्थिनं वानरं तस्य प्रतिज्ञां स्मारय, कथय च यद् यः स्वस्य प्रतिज्ञायाः पालनं न करोति सः अधमः पतितः च भवति। किं सोऽपि बालिवद् यमलोकं गन्तुम् इच्छति? मम पक्षतः त्वं तस्मै एतां सूचनां देहि येन अहं किमपि कठोरकार्यं कर्तुं विवशः न भवेयम्।
*-प्रदीपः!*

No comments:

Post a Comment