Thursday, November 21, 2024

Srimad Ramayana Kishkinda kandam part 6a in sanskrit

*श्रीरामायणकथा, किष्किन्धाकाण्डम्।*
(षष्ठः सर्गः)
बालिपत्न्याः तारायाः विलापः।(द्वितीयः खण्डः)

मम पतिदेवः स्वर्गे मम प्रतीक्षां कुर्यात्। 
तारायाः मर्मस्पर्शिवचनानि श्रुत्वा रामचन्द्रः अवदत् हे  तारे! त्वया इत्थं कृतः विलापः सर्वथा अनुचितः।  समस्तसंसारः परमात्मना निर्मितेन विधानेन चलति।  विधातुः तथैव इच्छा आसीत् इति मत्वा त्वं धैर्यं धर। अङ्गदस्य मनागपि चिन्तनं मा कार्षीः। अद्यारभ्य सः अस्य राज्यस्य युवराजः भविष्यति। तव पतिः वीरः आसीत्। सः युद्धं कुर्वन् वीरगतिं प्राप्नोत्, इति तु तव कृते गौरवस्य विषयः अस्ति।
इदानीं शोकं त्यज। रोदनेन दिवङ्गतात्मनः कष्टं भवति।

एवं प्रकारेण रामः तारां बहुधा अबोधयत्, तदन्तरं सुग्रीवम् अवदत् हे वीर! भवान् ताराम् अङ्गदं न नीत्वा इदानीं बालेः अन्तिमसंस्कारस्य सज्जतां कुर्यात्। अङ्गद! त्वम् अस्य संस्कारस्य कृते घृतम्, चन्दनम् इत्यादिकम् आनय! अपिच हे तारे! त्वमपि शोकं त्यक्त्वा बालेः अन्तिमसंस्काराय सज्जा भव।

इत्थं श्रीरामचन्द्रः सर्वान् उक्त्वा बालेः अन्तिमसंस्काराय सज्जताम् अकारयत्। 
बालेः शवयात्रायाः पृष्ठतः महान्तः योद्धारः, किष्किन्धानिवासिनः रुदन्तः श्मशानं प्राप्नुवन्।  स्त्रीणां करुणक्रन्दनेन  सम्पूर्णं वातावरणं शोकाकुलम् अभवत्। नद्याः तटे यदा चितां निर्माय तस्याः उपरि बालेः मृतशरीरम् अस्थाप्यत तदा पुनः एकवारं सम्पूर्णं वातावरणं करुणक्रन्दनेन  गुञ्जति स्म।

तारा पुनः बालेः शवं गृहीत्वा चितायाम् उपविश्य विलापं करोति स्म। महता परिश्रमेण च पुनः तारां बालेः मृतशरीरात् पृथग् अकारयन्। अन्ते अङ्गदः चितायाम् अग्निम् अज्वलयत्। यदा बालेः मृतशरीरं पञ्चतत्वे विलीनम् अभवत् तदा श्रीरामचन्द्रः लक्ष्मणः, सुग्रीवः, अङ्गदः, अन्यः प्रमुखवानरः च सर्वे मिलित्वा तस्य (बालेः) कृते जलाञ्जलिम् अददुः।
*-प्रदीपः!*

No comments:

Post a Comment