Thursday, July 16, 2020

Kalidasa’s pride & Vyasa - Sanskrit


when kalidasa standing near vedavyasa statue put his finger in the nabhi of the statue saying how many cha karas in the belly as vyasa is famous as chakara kukshi.then anthergatha vyasa held his finger firm and asked kalidasa to compose a sloka without using cha to relate droupathis' relation ship with each pandava with out using chakara then only I will release the finger.Kalidasa composed instantaneously and recited the same on which Vyasa was pleased and accepted kalidasas' pandithyam

महाकवेः कालिदासस्य विषये एषः रुचिरः प्रसंङ्गः मया श्रुतः। एकदा स काशीनगर्यां कुत्रचित् मुनेः व्यासस्य एकां प्रतिमां अपश्यत् । सः तस्य पुरतः साष्टांगं प्रणम्य "चकारजठराय नमः" इति स्वेन कृतमेकं मन्त्रं उच्चार्य समीपस्थस्य वृक्षस्य मूले उपाविशत् । व्यासः तस्य श्लोकेषु चकारस्य उपयोगः अनेकवारं वृथा कृतवान् इत्यतः तस्य उदरं (जठरं) चकारैः पूरितमासीदिति कालिदासस्य विवक्षा आसीत् ।

किंचिदनन्तरं एकः वृद्धब्राह्मणः तत्र समागतः। सः एका समस्या पूरयितुं कालिदासाय दत्तवान् । समस्या आसीत् "त्रितयः त्रितयः त्रिषु" इति।कालिदासः सद्य एव तस्य पूरणं एवं अकरोत् ।

पतिप्रवरता ज्येष्ठे पतिदेवरतानुजे ।
इतरेषु च पाञ्चाल्याः त्रितयः त्रितयः त्रिषु॥

patipravaratA jyeShThe patidevaratAnuje |
itareShu ca pA~jcAlyAH tritayaH tritayaH triShu||

Panchali (Draupadi) had two kinds of relationships each with Yudhishthira and Sahadeva – being her husbnad as well as elder/younger brother of the husband. With the other three (Bhima, Arjuna & Nakula) she had three kinds of relationships each (husband, husband's younger brother and elder brother.

तद् श्रुत्वा सः वृद्धब्राह्मणः कालिदासं पृष्टवान् "भवान् किमर्थं अत्र 'चकारं" एव उपयुक्तवान्" इति. तदा कालिदासः अवगतवान् एतद् ब्राह्मणः नान्यः कोऽपि परन्तु भगवान् व्यास एव इति। अहं व्यासस्य अपेक्षया अपि महान् कविः इति कालिदासस्य मनसि यः गर्वः आसीत् तस्य भंगः अभवत् । (अनन्तरं किमभवत् इति अहं न जानामि।

No comments:

Post a Comment