Jiva - Brahma aikya in a single Shvetashvatara mantra
Brahma sutra Bhashya: 1.3.29. This is a very important sutra to determine the nature of the 'size' of the jivatma:
In the Shvetashvatara Mantra ' वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते (5.9) the jiva, spoken of as 'aNu', atomic size figuratively, is also taught to be of infinite nature. The Taittiriya teaches Brahman as 'satyam jnanam anantam'. Shankara considers another mantra of the Shv.Up. 5.8. that also appears to say that the jiva is of a finite size and explains that such a specification is only on the basis of the association with the buddhi, etc. upadhis and not by its own inherent nature.
तथा च — ' वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते' (श्वे. उ. ५ । ९) इत्यणुत्वं जीवस्योक्त्वा तस्यैव पुनरानन्त्यमाह ; तच्चैवमेव समञ्जसं स्यात् — यद्यौपचारिकमणुत्वं जीवस्य भवेत् , पारमार्थिकं च आनन्त्यम् ; न हि उभयं मुख्यमवकल्पेत ; न च आनन्त्यमौपचारिकमिति शक्यं विज्ञातुम् , सर्वोपनिषत्सु ब्रह्मात्मभावस्य प्रतिपिपादयिषितत्वात् । तथेतरस्मिन्नप्युन्माने ' बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यवरोऽपि दृष्टः' (श्वे. उ. ५ । ८) इति च बुद्धिगुणसम्बन्धेनैव आराग्रमात्रतां शास्ति, न स्वेनैवात्मना ।
Om Tat Sat
No comments:
Post a Comment