Courtesy: Sri.Perikamana Narayanan
👴🏼 *कर्णमूलमुपागता* 👂🏼
केरलेषु मेल्पुत्तूर्-नारायणभट्टतिरिनामा कश्चन महापण्डित आसीत्। नारायणीयम्, प्रक्रियासर्वस्वं, निरनुनासिकचम्पूः इत्यादिका रचनास्तस्य प्रसिद्धाः सन्ति।
एकदा सः अम्पलप्पुल़ा इति देशे श्रीकृष्णमन्दिरं गतवान्। तस्मिन् मन्दिरे तद्देशराजानुज्ञया प्रतिदिनं महाभारतपारायणं प्रचलति स्म। यस्मिन् दिने भट्टतिरिः गतवान्, तद्दिने केनापि कारणेन महाभारतोपन्यासकोऽनुपस्थित आसीत्। भट्टतिरिमहोदयमनभिजानन्नपि स महाराजस्तं दृष्ट्वा कोपि ब्राह्मणः काल आयात इत्यमोदत। कथञ्चिदक्षराणि संयोज्य पठितुं शक्नोति वा इति प्रष्टुकामः स राजा तं कैरल्यामेवं पृष्टवान् - "कूट्टिवायिक्कान् अऱियामो?" अर्थात् "अपि भवान् सङ्कलय्य पठितुं शक्नोति?" भट्टतिरिश्च "यते कथमपि" इत्यवोचत्। महाभारतस्य शल्यपर्वणि त्रयस्त्रिंशंमध्यायं 'सङ्कलय्य' पठितुं प्रार्थितस्स सरलतया पपाठ श्लोकान् । मध्ये-
"भीमसेनगदाक्रान्ता
दुर्योधनवरूथिनी।
शिखा खार्वाटकस्येव
कर्णमूलमुपागता ॥"
इति श्लोकं पठितवान्। अयं श्लोको महाभारते न श्रुतपूर्व इति कृत्वा स्वयं खार्वाटकः स राजाप्राक्षीत् - "कुत्रास्त्ययं श्लोकः?" इति । भट्टतिरिरुक्तवान् - "भो राजन्, नायं ग्रन्थेस्ति श्लोकः । किन्तु सङ्कलय्य पठितुमाज्ञापितोहं कथमपि श्लोकमेकं सङ्कलय्य पठितवान् ।" इति। ("कूट्टिवायिक्कान्" इति कैरलीपदस्य "अधिकीकृत्य" इत्यप्यर्थः स्फुरेत् ।)
सन्निहितं खार्वाटं राजानमुपहसन्निव सन्दर्भोचितमपि श्लोकं रचयन्नसौ महान् कविरिति ज्ञातवान् स तं ससम्मानं पूजयामासेति कथानकमिदं केरलेषु प्रथते । ---डॉ। नारायणन् . पि आयुर्वेदि।
No comments:
Post a Comment