Courtesy: Smt.Baala Chiraavoori
*एकां पुरश्चरणां कुरु*
एकं महासिद्धपुरुषं सम्पर्कितवनहम्। ते गायत्रीं नैका कोटयः जपित्वा सिद्धिमवाप्य सिद्धपुरुषाः भवन्ति। ते ऋग्वेदीयःभवन्ति। साङ्गोपाङ्ग वेदाध्यायिनः ,संस्कृतभाषायां महान् विद्वांसोऽपि ते। नित्यानुष्ठानपरायणः, श्रीविद्योऽपासकोऽपि। तेभ्यः संस्कृतपाठशालायां आध्यापकत्वं कारयितुं उद्योगः प्राप्तः।
एकदा तां पाठशालां प्रति परिशीलनार्थं अधिकरी आगतः। तदा निर्वाहकाःअकथयन्- "तुभ्यं वेतनं दद्मः। किन्तु एतावत्कालपर्यन्तमपि तं अल्पीकृत्य दद्मः।अधिकारिणां पार्श्वे वेतनं सर्वं ददतीति कथयतु।"इति।ते अनुष्ठानपराः अतः नानृतं ब्रूयात्। अयं विषयः अविस्मरणीयः। यदि अनुष्ठानपरःअसत्यवादी भवति तर्हि तस्य अनुष्ठित मन्त्रशक्तिः अपगतो भवेत्। अतः ते असत्यं न वदामीति कथितवन्तः।
एतान् राजकीयविषयान् दृष्ट्वा ते निश्चितवन्तः इतः परं श्ववृत्तिं न करिष्यामि, कूर्पासकं न धार्यामीति च। तत्पश्चात् मनो वेदनामनुभूय परमाचार्यचरणानां सन्निधिं अगमन्।
तत्र उपविष्टा एव। धर्मविषये ग्लानिः भवति चेत् महात्मान एव तन्निवारितुं समर्थाः। तेषां दर्शनादेव आनन्दमनुभवामः। वयं इच्छामश्चेत् भारतदेशे अस्माकं निर्वेदनां उपशमयितुं महात्मानः दर्शन दद्युः।
महास्वामिनः पुरस्तात् उपविश्य किं वदानीति विचिन्त्यमाणान् तान् दृष्ट्वा स्वामिनः मन्दहासेन" तात! सर्वमहं जानामि। किंचित् कालं गायत्रीपुरश्चरणां करोतु" इति अकथयन् किल। संध्यवन्दनसमये जपगायत्री पृथगस्ति। पुरश्चरणा इत्युक्ते चतुर्विशतिलक्षात्मक गायत्री जपः साङ्गोपाङगेन कृर्यात्। 'कुरु' इति आदेशं प्रदत्तवन्तःस्वामिनः।
यथार्थेन ते सम्पन्नाः न सन्ति। विद्वान् सम्पदनार्थं न प्रयतते। प्रतिदिनमपि आहारवस्त्रनिलयेषु लोपं माभूदित्येव चिन्तयति। सर्वं समयमपि विद्यासमुपार्जनायैव यापनीयः इति विचारयति। किन्तु अधुना तेभ्यः कुटुम्बमस्ति पोषणार्थम्। संप्रति पुरश्चणार्थं स्थिते सति को वा पोषयति? ते गोदावरी तीरे बालकानां सहाय्येन कुटीरं निर्मीय पुरश्चरणार्थं सङ्कल्प्य प्रारब्धवन्तः। पुरश्चर्या समये तत् क्षेत्रं मा व्यतिक्रमणमिति नियमेन तथैव स्थिताः।
एतान् नियमान् अनुसृत्य ते पुरश्चर्यां कुर्वन्ति स्म।गायत्रीपुरश्चर्या द्वेत्रिषु दिनेषु सम्पूर्णा भविष्यति। तदा अतःपूर्वमेव तेषां माता तीव्रेण उदरव्याधिना पीडिता। चिकित्सार्थं पत्तनगमनमावश्यकं अस्ति। किन्तु तेन परिधिः न व्यतिक्रमणीयः। किं क्रियेत? तदा तेषां माता अकथयत्-"मां गायत्री एव रक्ष्यति। अत्रैव स्थित्वा जपं कुरु। आसान्तं पुरश्चर्यां कुरु।" इति।
मातृवचनात् पुरश्चरणा सम्पूर्णा अभवत्। मातुः उदरव्याधिरपि अपगता।ते महात्मानः गायत्रीमन्त्रसिद्धाः अभवन्। ते एव " श्रौतशिरोमणिः" "आगमद्युमणिः"( श्रियानन्द) "ब्रह्मश्री यनमन्ड्र वेणुगोपालशास्त्रिणः"।
----ब्रह्मश्री सामवेदं षण्मुखशर्माणः " संध्यावन्दनं" प्रवचनात्।
🙏🙌 काञ्चिपरमाचार्यवैभवात् अनूद्य....
बाला...✍
No comments:
Post a Comment