Courtesy: Smt Bala Chiraavuri
शैत्यबाधास्मरणेन मद्बाल्य स्मृतयः मनसि आगच्छन्ति। सम्प्रति कार्त्तिकमासे अधिका शैत्यबाधां न अनुभवामः। किन्तु त्रिंशद्वर्षेभ्यः पूर्वं आश्वयुजमासादनन्तरं यथा कार्त्तिकं प्रविशति तस्मिन् समये एव शैत्यमनुभवाम स्म। कार्त्तिके प्रतिदिनमपि उषःकाले एव वयं सर्वेऽपि कुल्यां स्नानार्थं गच्छाम स्म। अहो बाल्यावस्था खलु ! वृद्धाः सूर्योदयादनन्तरस्नानेन उत उष्णोदकस्नानेन कुप्यन्ति इति कारणादेव कुर्मः। तस्यां बाधां असहमानाः कार्त्तिके किमर्थं एवं नियमं नियमिताः महर्षयः इति चिन्तितं अस्माभिः। किन्तु तस्मिन् काले सूक्ष्मं विचारयितुं न समर्थाः।
*समश्शत्रौ च मित्रे च तथा मानावमानयोः।*
*शीतोष्णसुखदुःखेषु समस्सङ्ग विवर्जितः।।*
इति गीतायाम्।
शीतोष्णसुखदुःखादिषु समत्वं कथं भवति? उष्णस्पर्शात् उष्णतामेव अनुभवामः। तथैव शीतादिषु। किन्तु अत्र विचारणीयमस्ति तत्र सर्वत्रापि क्षमा प्रथाना वर्तते। सहनेनैव सर्वं साध्यं भवति। व्रतादीन् किमर्थं करणीयम्? क्षमागुणप्राप्स्यर्थं प्रथमसोपानं भवति शीतलस्नानम्। दन्तधावनादनन्तरं स्नादेव दिवसप्रारम्भो भवति खलु। क्षमया एव सङ्गः त्यक्तो भवति।
परमाचार्यः एकदा उक्तवन्तः" शीतवातप्रकोपेन यदि ज्वरमनुभवामःचेत् तस्मिन् समये इदमपि ईश्वरप्रसादमिति मत्वा समयविनियोगार्थं हृदये एव नामजपं कुर्युः" इति।
बाला...✍
No comments:
Post a Comment