Courtesy:Sri.Karthikeyan Madathil
चर्चाविषयः - प्रत्येकशब्दः
१. एकैकमित्यर्थे प्रति एक प्रत्येकम्
अव्ययं विभक्ति … २.१.६
इति सूत्रेण अव्ययीभावः
२. नाव्ययीभावादतोऽम्त्वपञ्चम्याः २.४.८३
तृतीयासप्तम्योर्बहुलम् २.४.८४
इति सूत्रद्वयं प्रासङ्गिकम्
अदन्ताव्ययीभावात् सुप् प्रत्ययानाम् आम् आदेशः, पञ्चमीं विहाय
तृतीयासप्तम्योः विकल्पेनैव आदेशः
आदेशे अकृते अव्ययादाप्सुपः २.४.८२ इत्यनेन प्राप्तस्य लोपस्यापि निषेधः
प्रत्येकस्य मित्रस्य ❌
प्रत्येकं मित्रस्य ✅
परं तु
प्रत्येकस्मिन् दिने ✅
प्रत्येकं दिने ✅

संस्कृतभारत्याः शुद्धिकौमुदीग्रन्थेऽपि प्रतिपादितमिदम्
प्रत्येकशब्दविचारः
"प्रत्येकस्य छात्रस्य यशः स्यात्" किमयं प्रयोगः साधुः ? बहुभिः प्रत्येकशब्दस्य षष्ठ्यां प्रयोगः प्रत्येकस्य इति क्रियते । परन्तु अयं प्रयोगः सर्वथा असाधुः । साधुप्रयोगो भवति – प्रत्येकं छात्रस्य यशः स्यात् । तथाहि –
एकं एकं प्रति इत्यर्थे प्रत्येकशब्दः सिद्ध्यति । अत्र अव्ययीभावसमासो भवति । अव्ययीभावसमासे कृते यदि प्रातिपदिकम् अकारान्तं भवति तर्हि सुबादिषु प्रत्ययेषु कृतेषु नाऽव्ययीभावादतोऽम्त्वपञ्चम्याः[1] इति सूत्रं प्रवर्तते । तथा च सूत्रार्थः – "अदन्तादव्ययीभावात् सुपो न लुक्, तस्य तु पञ्चमीं विना अमादेशश्च स्यात्" । अर्थात् अकारान्तात् अव्ययीभावसमासघटितप्रातिपदिकात् परस्य सुपः (सु औ जस् ——— सुप्) स्थाने अम् इत्यादेश भवति, पञ्चमीविभक्तौ (ङसि भ्याम् भ्यस्) तु न भवति । तथैव अन्यदपि किञ्चित् सूत्रं विद्यते तृतीयासप्तम्योर्बहुलम्[2] इति । अस्यार्थः – अदन्तादव्ययीभावात् तृतीयासप्तम्योर्बहुलम् अम्भावः स्यात् । तेन तृतीयाविभक्तौ सप्तमीविभक्तौ च अम् विकल्पेन भवति इत्यवगम्यते । एवञ्च अकारन्तस्य अव्ययीभावस्य रूपाणि इत्थं भवन्ति –
एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा प्रत्येकम् प्रत्येकम् प्रत्येकम्
द्वितीया प्रत्येकम् प्रत्येकम् प्रत्येकम्
तृतीया प्रत्येकेन/प्रत्येकम् प्रत्येकाभ्याम्/प्रत्येकम् प्रत्येकैः/प्रत्येकम्
चतुर्थी प्रत्येकम् प्रत्येकम् प्रत्येकम्
पञ्चमी प्रत्येकात् प्रत्येकाभ्याम् प्रत्येकेभ्यः
षष्ठी प्रत्येकम् प्रत्येकम् प्रत्येकम्
सप्तमी प्रत्येकम् प्रत्येकम् प्रत्येकम्
अन्यत्रापि अकारान्तेषु अव्ययीभावसमासेषु इयं प्रक्रिया अवगन्तव्या । यथा – उपकृष्ण, अपदिश, अतिहिम इत्यादि ।
[1] पा।सू। २/४/८३
[2] पा।सू। २/४/८४

No comments:
Post a Comment