*🌺✨श्रीशारदाम्बां भजे✨🌺*
श्रीशारदाम्बां भजे श्रितकल्पवल्लीम् ।
कारुण्यवारांनिधिं कलिकल्मषघ्नीम् ॥
इन्द्रादिदेवार्च्यपादाम्बुजातां ईशित्वमुख्याष्टसिद्धिप्रदात्रीम् ।
ऊहापथातीतमाहात्म्ययुक्तां मोहान्धकारापहस्वाभिधानाम् ॥ १ ॥
श्रीशङ्कराचार्यसंसेवितांघ्रिं श्रीश्रृङ्गगिर्याख्यपुर्यां वसन्तीम् ।
श्रीवाग्विभूत्यादिदानप्रवीणां श्रीभारतीतीर्थहृत्पद्मवासाम् ॥ २ ॥
—जगद्गुरुश्रीभारतीतीर्थमहास्वामिन:।
No comments:
Post a Comment