Sunday, May 15, 2022

Bhagavtpada ashtakam- Sanskrit

भगवत्पादाष्टकम्

शङ्कर शङ्कर शम्भो
शिव शङ्कर शङ्कर शङ्कर शम्भो
शङ्कर शङ्कर शम्भो ।।

कैलासवासिन्! नमस्ते
दिव्य-बृन्दारकैर्बह्मपुत्रैश्च वन्द्य! ।
कामादि-दोषघ्न! देव!
तत्त्व-मार्गाग्रदर्शिन्! परब्रह्मलिङ्ग! ।।१

कारुण्यवर्षिन्! नमस्ते
स्वीय-भक्तान् जनानात्म-तत्त्वोपदेशैः।
त्रातुं मनुष्यात्तदेह!
केरलेषु प्रसिद्धेषु पूर्णातटे त्वम् ।।२

श्रीकालटीक्षेत्रजात!
भद्र-गुर्वाख्यविप्रस्य सन्तप्तभाग्य!।
विद्याधिराजस्य पौत्र!
सर्व-विद्यास्वरूपिन्! सदा ब्रह्मनिष्ठ! ।।३

भो! ब्रह्मचारिन्! नमस्ते
विप्र-पत्न्यै श्रियं प्रार्थ्य सम्पत्प्रदस्त्वम् ।
मात्रे मुदं कर्तुमीश!
कैप्पलीति प्रसिद्धे स्वगेहे निवासिन्!।।४

ब्रह्मस्वरूपिन्! नमस्ते 
अष्ट-वर्षे ग्रहग्रस्तव्याजेन देव! ।
संन्यस्य देहाभिमानं
ब्रह्मनिष्ठं गुरुं प्राप्य संशान्तचित्तः ।।५

श्रीशङ्कराचार्यवर्य!
सर्व-शङ्कापहस्त्वं जनानुग्रहाय ।
गङ्गातटिन्यां सुतीरे
वेदसाराख्य-ढक्कां समानेदिथ त्वम् ।।६

विश्वामरैर्गीयमान!
विश्व-नाथस्य सन्दर्शनात् तुष्टचित्तः ।
भाष्यं गभीरं चकर्थ
तेन तुष्टस्तु कृष्णः सुभद्रं ददौ ते ।।७

सर्वज्ञपीठे निषण्ण!
पद्म-पादादिसच्छिष्ययोगीशवन्द्य! ।
तापं ममापाकुरु त्वम्
शुद्ध-ज्ञानप्रदानेन मां पाहि दीनम् ।।८

भक्त्या कृतं स्तोत्रमेतद्
रङ्गस्वामीति नाम्ना प्रसिद्धः सुयज्वा ।
आचार्यपादौ समर्प्य
मोदतेऽतीव सम्प्राप्तभाग्योदयः सन् ।।

रचयिता आङ्गरै ब्रह्मश्री रङ्गस्वामि-दीक्षितः 
२७-४-२०२२

No comments:

Post a Comment