Friday, February 26, 2021

Sanskrit conversation with Mamta Banerjee

*सद्यः भारतीयक्रिकेटदलेन अष्ट्रेलियादलं पराजितम्।*

*अस्मिन् विषये विभिन्नभारतीयराजनैतिकदलानां मतं किं भवितुम् अर्हेत् इति विषये किञ्चित् विश्लेषणम् उपस्थाप्यते मया।* 

*भाजपादलम्-* भारतस्य क्रीडकाः सर्वे मिलित्वा भारतस्य गौरवं अवर्धयन्। विजयोऽयं *सबका साथ सबका विश्वास* इत्यस्य वर्तते। 

*कांग्रेसदलम्-* एवं कदापि नास्ति यद् भारतदेशः प्रथमवारम् अष्ट्रेलियादलस्य विरुद्धे विजयं प्राप्नोत्।

अस्माकं शासनकाले अपि भारतदेशः विजयं प्राप्नोत्। अयमेव भेदः यत् भारतीयदलस्य अधिनायकस्य परिवर्तनम् अभूत्। 

अस्मिन् विषये मोदिसर्वकारः उत्साहप्रदर्शनं न कुर्यात्। 
एवं कृत्वा मोदिसर्वकारः कृषकान्दोलनात् जनानां दृष्टिं न भ्रामयेत्। 

*केजरीवालः-* क्रीकेटशृङ्खलायाः प्रारम्भात् पूर्वम् अहं भारतीयदलं पराजयेत् इति अवदं तदर्थम् अहं लिखितरूपेण क्षमायाचनं करोमि। 

*मायावती-* भारतीयदले कति जनाः निम्नवर्णीयाः आसन्? क्रीडायाः प्रारम्भः ब्राह्मणैः किमर्थं कृतः? 
शृङ्खलायाः महत् पारितोषिकम् अपि ब्राह्मणाय किमर्थं प्रदत्तम्? 
विजयोऽयं मनुवादिनः वर्तते। अर्थात् निम्नवर्णविरोधी वर्तते अयं विजयः। 

*ममता बॅनर्जी-* दलेऽस्मिन् कति जनाः अल्पसङ्ख्यकाः आसन्? 
एकमपि पारितोषिकम् अल्पसङ्ख्यकेभ्यः किमर्थं न प्रदत्तम्? 
दलस्य नायकः हिन्दुः, उपनायकोऽपि हिन्दुः। 
दलमिदं साप्रदायिकं वर्तते। 

*ओवैसी-* भारतीयदलम् अष्ट्रेलियादलं पराजयेत् इति संविधाने कुत्रापि लिखितं नास्ति।

*वामपन्थी-* न भारतेन चीनदेशः पराजितः, न तु चीनदेशेन भारतदेशः पराजितः। अतः अस्मिन् विजये अस्माकं नास्ति उत्साहः। 

*रवीशकुमारः-* किं भारतदेशः सहस्रसमस्यानां मध्ये पतितः सन्नपि एवं तेन उत्साहप्रदर्शनम् उचितम्? 
मोदिसर्वकारः उत्तरं दद्यात्।😀
*-प्रदीपः!*

No comments:

Post a Comment